________________
चन्द्रप्राप्तिको कासि मण्डलानि चरति ! इति प्रदर्श्यते-एकस्मिन्युगे त्रिंशदधिकानि अष्टादश शतानि (१८३०) अहोरात्राणां भवन्ति एषां मुहर्तकरणार्थ मेते एकस्वाहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशसा गुण्यन्ते जातानि चतुष्पञ्चाशत्सहस्राणि नवशतानि च (५४९००), एष राशिः अष्टपष्टयधिक सप्तदशशतैः (१७६८) सकलयुगवर्त्यर्द्धमण्डलै र्गुण्यते जाता:-नव कोटयः, सप्तति लक्षाणि, त्रिपष्टिसहस्राणि, द्वे शते च (९७०६ ३२००) एतावन्तो भागाः, एषाम् अष्टनवति शताधिकेन लक्षण (१०९८००) पूर्वप्रदर्शितेन मण्डलपरिक्षेपच्छेदकराशिना भागो हियते, लब्धानि चतुरशोत्यधिकानि अष्टौ शतानि चद्रमण्डलानि भवन्ति एतानि मण्डलानि द्वौ चन्द्रौ संमील्य एकस्मिन् युगे चारं चरतः । एषामर्द्धमण्डलानि द्विगुणानि जायन्ते अष्टषष्टयधिकानि सप्तदशशतानि (१७ ६८) ततो मण्डलकालानयनार्थ त्रैराशिकं क्रियते, तथाहि-यदि अष्टषष्टयधिकैः सप्तदशभिः सबै सकल युगवर्तिभिरर्द्धमण्डलैरष्टादशशतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते ? राशित्रयस्थापना(१७६८।१८३०१२) त्रैराशिकगणितरीत्याऽन्त्येन राशिना द्विकरूपेण मध्यो राशिस्त्रिंशदधिकाष्टादशशतरूपो गुण्यते, जातानि षष्टयधिकानि षदत्रिंशत्सहस्त्राणि (३६६०) एषामाद्येन राशिना अष्टपष्टयधिकसप्तदशशतरूपेण भागो हियते, लब्धौ द्वौ अहोरात्रो, शेषं तिष्ठति चतुर्विंशत्यधिक सतम् (१२४) । एष शेषभागः एकस्याहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशता गुण्यते, जातानि विंशत्यधिकानि सप्तत्रिंशच्छतानि (३७२०), एषामष्टषष्टयधिकसप्तदशशतरूपेण भाजकराशिना (१७६८) भागो ह्रियते, लब्धो द्वौ मुहूत्तौं, शेषं तिष्ठति चतुरशीत्यधिकं शतम् (१८४), ततः शेषीभूतस्य छेदगशेः (१७४), छेदकराशेश्च (१७६८) अष्टकेनापवर्तना क्रियते, जातश्छेद्यो राशिस्त्रयोविंशतिः (२३) छेदकराशिश्च एकविंशत्यधिके द्वे शते (२२१) तत आगतम् द्वौ अहोरात्रौ एकस्य चाहोरात्रस्य द्वौ मुहूर्तों, एकस्य च मुहूर्तस्य त्रयोविंशति रेकविंशत्यधिकद्विशतभागाः (२।२२३ । एतावता कालेन चन्द्रो द्वे अर्द्धमण्डले परिपूर्ण इतिएक परिपूर्ण मण्डलं चरतीति । इत्येवं मण्डलकालपरिज्ञानं कृतम् , साम्प्रतमेतदनुसारेण मुहर्तगतिपरिमाणं विचार्यते तत्र मण्डलकाले यौ द्वौ अहोरात्रौ तौ मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाताः षष्टि मुहूर्ताः (६०) तत एषु यो उपरितनी द्वा मूहूतौ तौ प्रक्षिप्येते जाता द्वाषष्टिः (६२) मुहूर्ताः । एते सवर्णनार्थमेकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां (२२१) गुण्यन्ते, जातानि द्वयुत्तरसप्तशताधिकानि त्रयोदश सहस्राणि (१३७०२), एषु चोपरितनास्त्रयोविंशतिभागाः प्रक्षिप्यन्ते, जातानि पञ्चविंशत्युत्तरसप्तशताधिकानि त्रयोदश सहस्राणि (१३ ७२५) । तत् एकमण्डलकालगतमुहूर्तसत्कैकविंशतिशतद्वयभागानां परिमाणम् । ततस्त्रैराशिकगणितावसरः प्राप्तः तथाहि-यदि पञ्चविंशत्युत्तर सप्त शताधिकैत्रयोदशभिः सहस्त्रैः-एक