SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १५ सू. १ ज्योतिष्काणां शीघ्रगतिनिरूपणम ५९० तावत् यद् यद् मण्डलम् उपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्य सप्तदश अष्ट षष्ठानि भागशतानि गच्छति, मण्डल शतसहस्रेण अष्टानवति शतैपिछत्त्वा । तावत् पकैकेन मुहर्तन सूर्यः कियन्ति भागशतानि गच्छति ? तावत् यद् यद् मण्डलम् उपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्य अष्टादश त्रिशानि भागशतानि गच्छति मण्डलं शतसहस्रेण अष्टानवति शतैश्छित्त्वा । तावत् एकैकेन मुहूर्त्तन नक्षत्रं कियन्ति भागशतानि गच्छति ? तावत् यद् यद् मण्डलमुपसंक्रभ्य चारं चरति तस्य तस्य मण्डलपरि क्षेपस्य अष्टादश पञ्च निशानि भागशतानि गच्छति मण्डलं शतसहस्रेण अष्टानवतिशतैपिछवा। सूत्र १। व्याख्या- 'ता कहते' इति, 'ता' तावत् 'कहं कथं केन प्रकारेण हे भगवन् 'ते' क्या 'बत्थु' चन्द्रसूर्यादिवस्तु 'सिग्धगइ आहियं' शीघ्रगति आख्यातम् ? 'तिवएज्जा' इति वदेत् वदतु कथयतु । भगवानाह- 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां वक्ष्यमाणानां खलु 'चंद सूरियगहगणनक्खत्तताराख्वाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां पञ्चानां ज्योतिष्काणां मध्ये 'चंदेहितो सूरिया सिग्धगई' चन्द्रेभ्यः चन्द्रापेक्षया सूर्याः शीघ्रगतयः सन्ति, 'सुरिएहितो गहा सिग्धगई' सूर्येभ्यो ग्रहाः शीघ्रगतयः सन्ति, 'गहे हिंतो णक्खत्ता सिग्घगई' आहेभ्यो नक्षत्राणि शीघ्रगतानि सन्ति, 'नक्खत्तेहितो तारा सिग्धगई' नक्षत्रेभ्यस्ताराःशीघ्रगतयः सन्ति । एतेषां पञ्चानां ज्योतिष्काणां मध्ये केषां सर्वाल्पा गतिः केषां च सर्व शीघ्रा गतिः ? इत्याह-'सव्वप्पगई' इत्यादि, 'सव्वप्पगई चंदा' सर्वाल्पगतयश्चन्द्राः सन्ति, 'सव्वसिग्धगई तारा' सर्वशाघ्रगतयस्तारा इति । एतमेवार्थ स्पष्टीकरणार्थं पृच्छति-'ता एगमेगेणं' इत्यादि, 'ता' तावत् 'एगमेगणं मुहुत्ते' एकेकेन मुहत्तैन 'चंदे' चन्द्रः 'केवइयाई भाग सयाई' कियन्ति भागशतानि मण्डलस्य 'गच्छइ' गच्छति : भगवानाह-'ता जं जं' इत्यादि, 'ता' तावत् 'जं जं मंडलं' यद् यद् मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तस्स तस्स तस्य तस्य 'मंडलपरिक्खेवस्स' मण्डलसम्बान्धनः परिक्षेपस्य परिधेः 'सत्तरस अट्ठसट्टि भागसयाई' सप्तदश अष्टषष्टान अष्टषष्टयधिकानि भागशतानि अष्टषष्टयधिकाान सप्तदश शतानि (१७६८) भागानां 'गच्छइ' गच्छात, 'मंडलं' मण्डलं मण्डलपरिक्षेपं च 'सयसहस्से' शतसहस्रण एकेन लक्षण 'अट्ठाणउइसएहि' अष्टनतिशतैः अष्टनतिशताधिकेन लक्षण (१०९८००) 'छेत्ता' छित्त्वा विभज्येति । यास्मन् मण्डले चन्द्रश्चारं चरांत तस्य मण्डलस्य भष्टानवातशताधिकंकलक्ष-(१०९८००) भागान् कृत्वा तन्मध्यात् अष्टषष्टयधिक सप्तदशशतभागान् (१७६८) अभिव्याप्य चन्द्रश्चारं चरतात भावः । अत्रेयं भावना- इह प्रथमं चन्द्रस्य मण्डलकालो निरूपणीयः तत्पश्चात् तदनुसारेण मुहूर्तगतिपरिमाणं पारभावनीयम् तत्र पूर्व चन्द्रस्य मण्डलकालः परिभाव्यते-एकस्मिन् युगे चन्द्रः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy