SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टोका प्रा. १४ सू. १४ ज्योत्स्नाधिक्य निरूपणम् ५९३ छाया -- तावत् कदा ते ज्योत्स्ना वहू राख्याता ? इति वदेत् तावत् ज्योत्स्नापक्षे खलु ज्योत्स्ना बहू राख्याता ? इति वदेत् तावत् कथं ते ज्योत्स्ना पक्षे ज्योत्ना बहु आख्याता ? इति वदेत् तावत् अन्धकारपक्षात् खलु ज्योत्स्ना पक्षे ज्योत्स्ना बहुराख्याता इति वदेत् । तावत् कथं ते अन्धकारपश्चात् ज्योत्स्ना पक्षे ज्योत्स्नाना बहुराख्याता ? इति वदेत् तावत् अन्धकारपक्षात् खलु ज्योत्स्नापक्षम् अयन् चन्द्रः चत्वारि द्विचत्वारिंशानि मुहूर्तशतानि षट्चत्वारिंशतं च द्वाषष्टि भोगान् मुहूर्त्तस्य यान् चन्द्रः विरज्यते तद्यथा - प्रथमायां प्रथमं भागम् १, द्वितीयायां द्वितीयं भागम्, यावत् पञ्चदश्यां पञ्चदशभागम् । एवं खलु अन्धकारपक्षात् ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता, इतिवदेत् । तावत् कियत्का खलु ज्योत्स्ना पक्षे ज्योत्स्ना बहुराख्याता, १ इति वदेत्, तावत् परीता असंख्येया भागाः तावत् कदा ते अन्धकारः बहुराख्यातः इति वदेत्, तावत् अन्धकारपक्षे खलु अन्धकारो बहुराख्यात इतिवदेत् । तावत् कथं ते अन्धकारपक्षे अन्धकारो बहुः आख्यातः ? इतिवदेत् तावत् ज्योत्नापक्षात् अधकारणपक्षे अंधकारो वहु राख्यात इतिवदेत् । तावत् कथं ते ज्योत्स्नापक्षात् अन्धकारपक्षे अन्धकारो बहुराख्यात इतिवदेत् तावत् ज्योत्स्ना पक्षात् खलु अन्धकारपक्षमयन् चन्द्रः चत्वारि द्विचत्वारिशानि मुहूर्त्त - शतानि षट् चत्वारिंशतं च द्वाषष्ठि भागान् मुहूर्त्तस्य यान् चन्द्रो रज्यते तद्यथा- प्रथमायां प्रथमं भम् द्वितीयायां द्वितोयं भागम्, यावत् पञ्च दश्यां पञ्चदशं भागम् । एवं खलु ज्योत्स्ना पक्षात् अन्धकार पक्षे अन्धकारो बहुराख्यातः इति वदेत् । तावत् कियत्कः खलु अन्धकारपक्षे अन्धकारो बहु राख्यातः ? इति वदेत परीता असंख्येया भागाः स्० ॥१४॥ ॥ चतुर्दश प्राभृतं समाप्तम् ॥ व्याख्या -- 'ता कया ते' इति 'ता' तावत् 'कया' कदा कस्मिन् काले हे भगवन् 'ते' त्वया तवम वा 'दोसिणा' ज्योत्स्ना 'बहू' बहुः प्रभृता 'आहिया' आख्याता : 'तिवएज्जा' इति वदेत् वदतु भगवानाह - 'ता दोसिणा पक्खे' इत्यादि ता दोसिणा पक्खेणं' ज्योत्स्ना पक्ष शुक्लपक्षे स्वल 'दोसिणा ' ज्योत्स्ना चन्द्रिका 'बहू' बहुः प्रभृता 'आहिया' आख्यता 'तिवएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । पुनः पृच्छति - 'ता कहंते' इत्यादिना 'ता' तावत् 'कहूं' कथं कस्मात् 'ते' तवमते 'दोसिणा पक्खे' ज्योत्स्ना पक्षे शुक्लपक्षे 'दोसिणा ' ज्योत्स्ना चन्द्रिका 'बहू' बहुः 'आहिया' आख्याता ? 'तिवएज्जा' इति वदेत् वदतु । भगवानाह-'ता' तावत् 'अंधयार पक्खाओ णं' अन्धकारपक्षात् कृष्णपक्षमधिकृत्य खलु कृष्ण पक्षापेक्षयेत्यर्थः ' दोसिणा' ज्योत्स्ना 'बहू' बहुः 'आहिया' आख्याता 'तिवएज्जा' इति वदेत् कथयेत् । पुनः पृच्छति - 'ता कहंते इत्यादि' 'ता' तावत् 'कहं' कथं कस्मात्कारणांत् 'ते' तवमते 'अंधयारपक्खाओ' अन्धकारपक्षात् अन्धकारपक्षापेक्षया 'दोसिणापक्खे' ज्योत्स्नापक्षे शुक्लपक्षे 'दोसिणा बहू आहिया' ज्योत्स्ना बहुराख्याता ? 'तिवएज्जा' इति वदतु । भगवान् तदेव दर्शयति 'ता अंधयारपक्खाओ' इत्यादि, 'ता' तावत् 'अंधयार ७५
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy