________________
पक्खाओ णं' अन्धकारपक्षात् खलु दोसिणा पक्खं' ज्योत्स्नापक्षम् 'अयमाणे' अयन् प्राप्नुक्न् 'चंदे' चन्द्रः 'चत्तारि बायालाई मुहुत्तसयाई, चत्वारि द्वाचत्वारिंशानि द्वाचत्वारिंशदधिकानि मुहूर्तशतानि द्वाचत्वारिंशदधिकानि चतुर्मुहूर्तशतानि, “मुहुत्तस्स' एकस्य मुहूर्तस्य च 'छत्तालीसं च बावट्ठिभागे' षट्चत्वारिंशतं द्वाषष्टि भागान् यावत् ज्योत्स्ना निरन्तरं प्रवर्द्धते कानित्याह-'जाई' यान् भागान् यावत् 'चन्दे' चन्द्रः 'विरज्जई' विरज्यते विरक्तो भवति राहु विमानेनानावृतो भवति षट्चत्वारिंशद् द्वाषष्ठिभागसहितद्विचत्वारिंशदधिकचतुःशतभाग(४४२-४२) पर्यन्तं ज्योत्स्ना वर्द्धते इति भावः । एतावत्कालपर्यन्तं चन्द्रः शनैः शनैः
६२ राहु विमानेनानावृतस्वरूपो भवन्नास्ते । मुहूर्त्तसंख्यागणितभावना पूर्व प्रदर्शितैव तद्वत कर्तव्या । चन्द्रो राहुविमानेन कथमनावृतो भवतीत्याह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'पढमाए पढमं भागं' प्रथमायां प्रथमतिथौ प्रतिपदीत्यर्थः प्रथमं पञ्चदशं द्वाषष्टिभाग सम्बन्धि भागचतुष्टयप्रमाणं भागं यावदनावृतो भवति ? 'बिइयाए बिइयं भागं' द्वितीयायां तिथौ द्वितीयं भाग पूर्वोक्तलझणं यावत् अनावृतो भवति, एवं 'जाव' यावत्-यावत्पदेन तृतीयायां तृतीयं भागम् ३, चतुर्थ्यां चतुर्थ भाग, पञ्चम्यां पञ्चमं भागम् षष्ठयां षष्ठं भागम् ६. सप्तम्यां सप्तमं भागम् ७, अष्टम्यामष्ठमं भागम् ८, नवम्यां नवमं भागम् ९, दशम्यां दशमं भागम् १०, एकादश्यामेकादशं भागम् ११, द्वादश्यां द्वादश भागम् १२, त्रयोदइयां त्रयोदशं भागम् १३, चतुर्दश्यां चतुर्दशं भागम् १४, इत्येतत् संग्राह्यम्, अग्रे सूत्रकार एवाह -'पण्णरसीए पण्णरसं भाग' पञ्चदश्यां पूर्णिमायामित्यर्थः पञ्चदशं भागं यावद अनावृतो भवति, तदा सर्वात्मना चन्द्रो राहु विमानेनानावृतो भवतीति भावः । . अथोपसंहरति एवं खल' इत्यादि ‘एवं' एवम् पूर्वौक्तरीत्या खलु 'अंधयारपक्खाओ' अन्धकारपक्षात् 'दोसिणा पक्खे' ज्योत्स्ना पक्षे शुक्लपक्षे 'दोसिणा बहू आहिया' ज्योत्स्ना बहुराख्याता 'तिवएज्जा' इति वदेत् कथयेत् । अथात्र भावना क्रियते-इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य प्रति मुहूर्त याव-मात्रं शनैः २ चन्द्रः प्रकटो भवति तथैव अन्धकार पक्षे प्रतिपत्प्रथमक्षणादारम्य प्रतिमुहूते तावन्मात्रं शनैः शनैश्चन्द्र आवृतो जायते, तत एवं सति यावत्येवान्धकार पक्षे ज्योत्स्ना भवति तावत्येव शुक्लपक्षेऽपि ज्योत्स्ना प्राप्यते, किन्तु शुक्लपक्षे या पूर्णिमायां ज्योत्स्ना भवति सा अन्धकारपक्षादधिका भवतीत्यतः अन्धकार पक्षात् शुक्लपक्षे ज्योत्स्ना बहुः कथितेति ।
अथ तत्प्रमाण विषये पृच्छति-'ता केवइया' इत्यादि 'ता' तावत् 'केवइया' कियत्का कियत्परिमिता 'ण' खलु 'दोसिणापक्खे' ज्योत्स्ना पक्षे 'बाहू' बहुः प्रमृता शुक्लपक्षे 'दोसिणा' ज्योत्स्ना चन्द्रिका