SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५७४ चन्द्रप्रज्ञप्तिसूत्रे मूलमू-- तत्थ खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ पण्णत्ताओ । बावट्ठी एए कसिणा रागा बावट्ठी एए कसिणा विरागा । एए चउव्वीसे पन्चसए एए चउव्वीसे कसिणरागविरागसए । जावइयाणं पंचण्हं संवच्छराणं समया एगेणं चउवीसेणं समयसएण ऊणगा एवइया परित्ता असंखेज्जा देस राग विरागसया भवंतीति मक्खायं । ता अमावासाओ णं पुण्णमासिणी चत्तारिवायालाई मुहुत्तसयाइं छत्तालीसं बावद्विभागे मुहुत्तस्स आहिए तिवएज्जा । ता पुण्णमासिणी ओणं अमावासा चत्तारि बयालाई मुहुत्तसयाइं छत्तालीसं बावटि भागे मुहुत्तस्स आहिए तिवएज्जा । ता पुण्णमासिणीओणं पुण्णमासिणी अट्ठ पंचासीयाई मुहुत्तसयाई आहिएतिवएज्जा, एस णं एवइए चंदे मासे, एसणं एवइए सगले जुगे ॥सू० २।। छाया-तत्र खलु इमा द्वाषष्टिः पौर्णमास्यः, द्वापष्टिरमावास्याः प्रज्ञप्ताः । द्वाष ष्टिरेते कृत्स्ना रागाः, द्वाष्टिरेते कृत्स्ना विरागाः । पते चर्तुविश पर्वशतम् । पते चतुविश कृत्स्नं रागविरागशतम् । यावत्काः पञ्चानां संवत्सराणां समयाः एकेन चतुर्विशेन समयशतेन ऊनकाः, एतावत्काः परीता असंर येया देशराग विरागसमया भवन्तीति आख्यातम् । तावत् अमावास्यातः खलु पौर्णमासी चत्वारि द्विचत्वारिंशानि मुहूर्त शतानि, षट्चत्वारिंशतं द्वाषष्टिभागान् मुहूर्तस्य आख्यातम् इति वदेत् । तावत् पौर्णमासीतः खलु अमावास्या चत्वारि द्विचत्वारिंशानि मुहूत्तशतानि, षट्चत्वारिंशतं द्वाषष्टिभागान् मूहूर्तस्य आख्याता इति वदेत् । तावत् अमावास्यातः खलु अमावास्या अष्ट पञ्चाशीतानि मुहूर्तशतानि, त्रिशतं च द्वाष्टिभागान् मुहूर्तस्य आख्यातम् इति वदेत् । तावत् पौर्णमातीतः खलु पौर्णमासी अष्ट पञ्चाशीतानि मुहूर्तशतानि, त्रिंशत च द्वाष्टिभागान् मुहूर्तस्य आख्याता इति वदेत् । एष खलु एतावत्कः चान्द्रः मासः । एष खलु एतावत्कं शकल युगम् । सू०-२॥ व्याख्या-'तत्थ खलु' इति, 'तत्थ खलु' तत्रैकस्मिन पञ्च संवत्सरात्मके युगे खलु 'इमाओ' इमाः पूर्वोक्ता एवं स्वरूपा 'बाबट्ठी पुण्णमासिणीओ' द्वाषष्टिः पौर्णमास्यः तथा 'बावट्ठी अमावासाओ' द्वाषाष्टिरमावास्याः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः । तथा युगे चन्द्रमसः 'एए' ऐते पूर्वोक्तस्वरूपाः 'बावट्ठी' द्वाषष्टिः 'कसिणा रागा' कृत्स्ना परिपूर्णाः रागाः, अमावस्यानां युगे द्वापष्टिसंख्यकत्वात् तासु पौर्णमासीष्वेव च चन्द्रस्य परिपूर्णरागसंभवात् । 'एए' ऐते 'बाबट्ठी द्वाषष्टिः 'कसिणा' कृत्स्ना परिपूर्णा 'विरागा' विरागा: संपूर्णत्वेन रागाभावाः, युगे पौर्णमासीनां द्वाषष्टिसंख्यकत्वात् तास्वेव आमावास्यासु च चन्द्रस्य परिपूर्णविरागसंभवात् । 'एए' एतानि 'चउव्वीसे पव्वसए' चतुर्विशं चतुर्विशत्यधिकं पर्वशतं (१२४) भवति । अमावास्या पौर्णमासीनामेव पर्व संज्ञा वर्त्तत्ते, ताश्च पृथक् २ द्वाषष्टि-द्वाषष्टि संख्यका भवन्तीति तेषां संमीलने चतुर्विशत्यधिकशतसंख्यासद्भावात् । एवमेव 'एए चउव्वीसे कसिणराग
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy