________________
६२
चन्द्रश्चप्तिप्रकाशिका टीका प्रा १३ सू.१. चन्द्रमसो वृद्धयपवृद्धि निरूपणम् ५७३
तदेवं चन्द्रस्यापवृद्धिः प्रदर्शिता, साम्प्रतं तस्य वृद्धिमभिधित्सुराह-'ता अंधकारपक्खाओणं' इत्यादि 'ता' तावत् 'अंधकारपक्खाओणं' अन्धकारपक्षात् कृष्णपक्षात् खलु 'जोसिणा पक्खं' ज्योत्स्नापक्षं शुक्लपक्षम् 'अयमाणे' अयन् गच्छन् 'चंदे' चन्द्रः 'चत्तारि बालाई मुहुत्तसयाई' चत्वारि द्विचत्वारिंशानि द्विचत्वारिंशदधिकानि मुहूर्तशतानि 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'छयालीस वावट्ठिभागे जाव' षट्चत्वारिंशतं द्वाषष्टिभागान् यावत् ( ४४२४६ ) वृद्धिमुपगच्छतीति भावः । 'जाई, यानि यथोक्तसंख्यकानि द्वाषष्टिभागसहितमुहूर्तशतानि यावत् 'चंदे' चन्द्रः 'विरज्जई' विरज्यते विरक्तो भवति राहुविमानप्रभया शनैः शनैरनावृतो भवति । तत्प्रकारमाह-' तं जहा' इत्यादि 'तं जहा' तद्यथा-'पढमाए पढमं भागं प्रथमाया शुक्लपक्ष प्रतिपल्लक्षणायां तिथौ प्रथम पञ्चदशं भागं यावत् चन्द्रो विरक्तो भवति १ । 'बिइयाए बिइयं भार्ग' द्वितीयायां तिथौ द्वितीयं पञ्चदशं भागं यावत् विरक्तो भवति २। 'जाव' यावत् यावत्पदेनात्रापि अन्धकारपक्षगतरक्त प्रकरणवद् विरक्त प्रकारणोऽपि तृतीयातिथित आरभ्य चतुर्दश्यां तिथौ चतुर्दशं पञ्चदशं भागं यावत् , इत्येतत्पर्यन्तं सर्व वाच्यम् । पच्चदशी विषय सूत्रकार एवाह-'पण्णरसीए' इत्यादि 'पण्णरसीए' पञ्चदश्यां तिथौ पूर्णिमायां तिथौ 'पण्णरसमं' पञ्चदशं–पञ्चदशं भागं यावत् चन्द्रो विरक्तो भवतीति । 'चरिमे समए' चरमे समये पञ्षदश्याश्चरमसमये 'चंदे' चन्द्रः 'विरत्ते भवई' विरक्तो भवति सर्वात्मना राहु प्रभयाऽनावृत्तो भवति, अत्र चन्द्रस्य सर्वे भागा दृश्यन्ते यश्च षोडशो भागाः स तु सर्वदाऽनावृत एवावतिष्टतेऽतो नास्य चर्चा कृता । 'अवसेसे समए' अवशेषे पञ्चदश्याश्चरमसमयातिरिक्ते समये शुक्लपक्षप्रथमसमयादारभ्य पञ्चदश्याश्चरमसमयात् पूर्वं पूर्व ये समयास्तेषु सर्वेषु 'चंदे' चन्द्रः 'रत्ते य विरत्ते य भवइ' रक्तश्च विरक्तश्च भवति कियदंशानां राहुणाऽऽवृतत्वात्, कियदंशानां चानावृत त्वात् । मुहूर्त संख्याभावना च कृष्णपक्षप्रकरणप्रदर्शितवदेवात्रापि कर्त्तव्या । अथ शुक्लपक्ष वक्तव्यताया उपसंहारमाह-'इयण्णं' इत्यादि, 'इयण्णं' इयम् अनन्तरोक्ता पञ्चदशी
खलु तिथिः 'पुण्ण मासिणी' पौर्णमासी कथ्यते । 'एत्थ णं' अत्र युगे खलु 'दोच्चे पव्वे' द्वितीयं पर्व 'पुण्णमासिणी' पौर्णमासी भवति, अमावास्यापौर्णमास्योरेव पर्वत्वेन प्रसिद्धत्वात् । सू० । १॥
पूर्वं चन्द्रस्य वृद्धयपवृद्धी अधिकृत्य अमावास्या पौर्णमासी च प्रदर्शिता, साम्प्रतम्-एताहश्योऽमावास्याः पौर्णमास्यश्च एकस्मिन् युगे कियन्त्यः किंयन्त्यो भवन्ति ? इति तासां सर्व संख्यामाह—'तत्थ खलु इमाओ' इत्यादि ।