SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७२ चन्द्रप्रशतिसूत्रे 'जाव' यावत् - यावत्पदेन तृतीयायां तृतीयं पञ्चदशं भागम् ३, चतुर्थ्यां चतुर्थ पञ्चदशं भागम् ४, पञ्चम्यां पञ्च पञ्चदशं भागम् ५, षष्टयां षष्ठं पञ्चदशं भागम् ६, सप्तम्यां सप्तमें पञ्चदशं भागम् ७, अष्टम्यामष्टमं पञ्चदश भागम् ८, नवम्यां नवमं पञ्चदशं भागम् ९, दशम्यां दशमें पञ्चदशं भागम् १०, एकादश्यामेकादशं पञ्चदशं भागम् ११, द्वादश्यां द्वादशं पञ्चदशं भागम् १२, त्रयोदश्यां त्रयोदशं पञ्चदशं भागम् १३, चतुर्दश्यां चतुर्दशं पञ्चदशं भागम् १४, अग्रे सूत्रकार एवाह - 'पण्णरसीए' इत्यादि, 'पण्णरसीए' पञ्चदश्याम् - अमावास्यायां समाप्नुवत्या मित्यर्थः ' पण्णरसं भागं पञ्चदशं परिपूर्णं पञ्चदशं भागं यावत् चन्द्रो रज्यते । तस्याश्च पञ्चदश्या अमावास्या रूपायास्तिथेः 'चरिमसमए' चरमसमये 'चंदे' चन्द्रः 'रत्ते भवइ' राहुविमानप्रभया सर्वात्मना परिपूर्णभावेन रक्तो भवति, किञ्चिन्मात्रोऽपि भागश्चन्द्रस्य न दृश्यते चन्द्रस्तिरोहितो भवतीति तात्पर्यार्थः । षोडशो भागो यो द्वाषष्टिभागद्वयात्मकः सदाऽनावृत्तस्तिष्ठति स स्तोकत्वेना दृश्यत्वान्न गण्यते । 'अवसे से समए' अवशेषे पञ्चदश्या स्तिथेश्वरमसमयातिरिक्ते समये अन्धकारपक्षस्य प्रथमसमयादारभ्य शेषेषु पञ्चदशीतिथेश्चरमसमयात्पूर्वं पूर्वं ये समयास्तेषु सर्वेषु समयेषु 'चंदे' चन्द्रः 'रत्ते य विरतेय भवइ' रक्तश्च विरक्तश्च भवति कियदंशानां राहुणा आवृतत्वात् कियदंशानां चानावृतत्वात् । अन्धकार पक्षवक्तव्यताया उपसंहार - 'इयण्णं' इत्यादि, 'इयण्णं' इयं खलु इयम् अन्धकारपक्षे या पञ्चदशी तिथिः खलु 'अमावासा' अमावास्या कथ्यते । 'एत्थ णं' अत्र युगे खलु 'पढमे पव्वे अमावासा' प्रथमं पर्व अमावस्या, इयममावास्या, युगस्य प्रथम पर्वसमस्ति मुख्यत्वेन अमावास्या पौर्णमास्योरेव पर्वशब्देनाभिधीयमानत्वात् । अथ कथं द्विचत्वारिंशदधिकानि चत्वारि मुहूर्त्तशतानि, एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टि भागाः ? अत्रोच्यते - इह शुक्लपक्षः कृष्णपश्च चन्द्रमासस्यार्द्धमर्द्धम्, चन्द्रमास्य द्वात्रिंशद् द्वाषष्टिभाग युक्तैकोन त्रिंशद्वात्रिन्दिवात्मकत्वातस्य चन्द्रमासार्द्धस्य पक्षरूपस्य प्रमाणं - चतुर्दशरात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य सप्तचत्वारिंशद् द्वाषष्टिभागाः ( ( १४ ) इत्येवं रूपं भवति, एकं रात्रिन्दिवं त्रिंशन्मुहूर्त्तात्मकमिति |६२ ४७ चतुर्दशत्रिंशता गुण्यते, जातानि विंशत्यधिकानि चत्वारि मुहूर्त्तशतानि (४२०) येऽपि चोपरितनाः सप्तचत्वारिंशद् द्वाषष्टिभागाः (४७) तेऽपि मुहूर्त भागकरणार्थं त्रिशता गुण्यन्ते, जातान दशोत्तराणि चतुर्दशशतानि (१४१०) एषां द्वाषष्ट्या भागो ह्रियते लब्धा द्वाविंशति मुहूर्त्ताः, ते मुहूर्त्तराशौ विंशत्यधिक चतुःशतरूपे (४२०) प्रक्षिप्यन्ते, जातानि द्विचत्वारिंशदधिकानि चत्वारि मुहूर्त्तशतानि (४४२), शेषास्तिष्ठन्ति मुहूर्त्तस्य षट्चत्वारिंशद् (४६) द्वाषष्टिभागाः । तदेवमागतं सूत्रोक्तं प्रमाणम् (४४२ ४६ २ ) इति ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy