________________
S
चन्द्राप्तिप्रकाशिकाटीका प्रा.१३ सू. १ चन्द्रमसोवृद्धयपवृद्धि निरूपणम् ५७९ वृद्धिः कियत्कालं यावत् अपवृद्धिस्त्वया कथिते ! इति प्रतिपादयतु, इति भावः । एवं गौतमेन पृष्टे भगवनाह—'ता अट्ठ' इत्यादि 'ता' तावत् 'अट्ठपंचासीयाई मुहुत्तसयाई' अष्ट पञ्चाशीतानि, मुहूर्तशतानि पञ्चाशीत्यधिकानि अष्टौ मुहर्तशतानि, 'मुहुत्तस्स' एकस्य मुहूर्तस्स 'तीसं च बावट्ठिभागे जाव' त्रिंशच्च द्वाषष्टिभागान् यावत् मुइतस्य त्रिंशद् द्वाषष्टिभागपर्यन्तं ( ८८५/२° ) वृद्धचपवृद्धी 'आहिए' आख्याते 'तिवएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । तथाहि- एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे शुक्लपक्षे वृद्धिः, एकस्मिश्चपक्षे कृष्णपक्षे अपवृद्धिर्भवति । चन्द्रमासस्य परिमाणम् एकोनत्रिंशदहोरात्राः एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः ( २९३२ ) अहोरात्राणां त्रिंशन्मुहूर्त्तकरणार्थ एकोनत्रिंशत् त्रिंशता गुण्यन्ते, जातानि-सप्तत्यधिकानि अष्टौ शतानि (८७०) मुहूर्तानाम् येऽपि चोपरितना द्वात्रिंशद् द्वापष्टिभागास्तेऽपि मुहूर्तसत्कभागकरणार्थ त्रिंशता गुण्यन्ते जातानि षष्टयधिकानि नवशतानि (९६०) द्वाषष्टिभागानाम् , एषां मुहर्त्तानयनाथ द्वाषष्टया भागो हियते, लब्धा पञ्चदशमुहूर्ताः (१५), ते मुहूर्तराशौ सप्तत्यधिकाष्टशतरूपे प्रक्षिप्यन्ते, जातानि पञ्चाशीत्यधिक नि अष्टौ शतानि (८८५) शेषा येऽवतिष्ठन्ते त्रिंशत् , ते च त्रिंशत् एकस्य मुहूर्तस्य द्वाष्टिभागाः ( ८८५/३० ) एतदेव सूत्रकारः प्रतिविशेषावबोधार्थ पृथक् पृथक्त्वेन स्पष्टयति'ता जोसिणापक्खाओ' इत्यादि, 'ता' तावत् 'जोसिणापक्खाओ' ज्योत्स्नापक्षात्-ज्योत्स्ना चन्द्रिका, तत्प्रधानः पक्षः ज्योत्स्ना पक्षः शुक्लपक्ष इत्यर्थः तस्मात् 'अंधकारपक्खमयमाणे' अन्धकारपक्षम्-अन्धकारप्रधानः पक्षः अन्धकारपक्षः कृष्णपक्ष इत्यर्थः, तम् अयन्. प्राप्नुवन् अन्धकारपक्षे गञ्छन् 'चंदे' चन्द्रः 'चत्तारि बायालाई मुहुत्तसयाई चत्वारि द्विचत्वारिशानि द्विचत्वारिंशदधिकानि मुहूर्तशतानि (४४२) 'छत्तालीसं च बावडिभागे जाव' षट् चत्वारि शतं च द्वाषष्टिभागान् एकस्य मुहूर्तस्य यावत् एतावत्कालपर्यन्तम् अपवृद्धि प्रामोतीति भावः । 'जाई' यानि-यथोक्तसंख्यकानि द्वाषष्टिभागसहितमुहूर्तशतानि ( ८८५/ :) यावत् 'चंदे' चन्द्रः 'रज्जइ' रज्यते राहुविमानप्रभया रक्तो भवति । कथमित्याह—'तं जहार इत्यादि, 'तं जहा' तद्यथा-'पढमाए' प्रथमायां कृष्णपक्ष प्रतिपल्लक्षणायां तिथौ तत्परिसमाप्तिसमये 'पढम भागं' प्रथमं भागं परिपूर्ण पञ्चदशं भागं यावद् राज्यते 'बिइयाए' द्वितीयायां तिथौ परिसमाप्तिं प्राप्नुवत्यां सत्यां 'बिइयं भागं' द्वितीयं पञ्चदशं भागं यावत् रज्यते ।