________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १३ सू. २ एकस्मिन्युगे कियन्त्योऽमावास्या पौर्णमास्यश्च ५७५ विरागसए' एतत् चतुर्विंशत्यधिकं कृत्स्न रागविरागशतम् युगमध्ये कृत्स्नरागविरागयो षिष्टि द्वाषष्टि संख्यकत्वात् तयोः सम्मेलने भवति चतुर्विशत्यधिकं कृत्स्नरागविरागशतमिति । 'जावइयाणं' यावत्का-यावत्परिमिताः पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां 'समया' समया भवन्ति ते 'एगेणं चउव्वीसेणं सएणं' एकेन चतुर्विंशत्यधिकेन शतेन 'ऊणगा' ऊनकाः न्यूनाः चतुर्विशत्यधिकेन शतेन ऊनी कृते यावन्तः समया भवन्ति 'एवइया' एतावत्का: इयन्तः ‘परित्ता' परीताः परिमिताः असंखेज्जा' असंख्येयाः 'देसरागविरागसमया' देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि समयेषु चन्द्रस्य देशतो रागविरागसद्भावात् । अत्र यत् 'चतुर्विशत्यधिकेन शतेन ऊना समया' इति कथितं तत् 'चतुर्विशत्यधिकशतं समयानां मध्ये द्वाषष्टि समयेषु पौर्णमासी सत्केषु कृत्स्नो विरागो भवतीत्यतस्त दर्ज नमधिकृत्य ऊनाः, प्रोक्तम् । 'तिमक्खायं' इति आख्यातं-भगवतेति ।
साम्प्रतम् अमावास्यातोऽनन्तरं पौर्णमासी, पौर्णमासीतोऽनन्तरं चामावास्या कियत्सु मुहर्तेषु गतेषु सत्सु समायाति ? इत्यादि निरूपयन्नाह-'ता अमावासाओणं' इत्यादि सर्व मूलसूत्रगम्यम्, तथाहि-'अमावास्यातोऽनन्तरं पौर्णमासो षद चत्वारिंशद् द्वाषष्टिभागयुक्तद्विचत्वारिशदधिकचतुः मुहर्तान् (४४२। व्यतिक्रम्यायाति, एतावत एव मुहर्त्तान् व्यतिक्रम्य पौर्णमासतोऽमावास्याऽऽयातीति भावः । अथामावास्यातोऽमावास्या, पौर्णमासीतः पौर्णमासी क्रियन्मुहूर्तानन्तरऽमायातीति प्रदर्शयति-'ता अमावासाओणं' इत्यादि, एतदपि सुगमम् । अयं भावः-अमावास्यातोऽनन्तरं चन्द्रमासस्यार्द्धन पौर्णमासी समागच्छति, पौर्णमासीतोऽनन्तरमद्देन चन्द्रमासेन अमावास्या समागच्छति । अमावास्यातोऽमावास्या, पौर्णमासीतश्च पौर्णमासीत्येवयं परिपूर्णेन चन्द्रमासेन भवतीति अमावास्यातोऽमावास्या, पौर्णमासीचेत्येतद् द्वयमपि त्रिंशद्वाषष्टिभागयुक्त पञ्चाशीत्युत्तराष्टशतमुहूर्त्तानन्तरम् (८८५ ) परस्पर मेका मावास्यातो द्वितीयाऽमास्या, एक पौर्णमासीतो द्वितीया पौर्णमासी समायातीति । एतत्कथमित्याह-चन्द्रमासस्य एकोनविंशदिनानि द्वात्रिंशच्च द्वाषष्टि भागाः (२९।३२।) भवन्ति । एकस्याहोरात्रस्य त्रिंशन्मुहर्ता इति पूर्वोक्तराशे स्त्रिंशता गुणने समायति एकपूर्णिमातो द्वितीयपूर्णिमापर्यन्तकालस्य यथोक्ता' मुहूर्त्तसंख्या (८८५।२०) इति । उपसंहारमाह—'एसणं' इत्यादि
६२
दर
'एसणं' एषः खलु पञ्चाशीत्यधिकानि अष्टौ मुहूर्तशतानि, एकस्य मुहूर्तस्य त्रिंशच्च द्वाषष्टिः भागाः, इत्येतावान् ‘एवइए' एतावत्कः एतावन्मुहूर्तप्रमाणकः 'चंदे मासे' चाद्रो मासो