SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे रूपेण 'उवाएणं' उपायेन क्रमेण प्रत्यहोरात्रं तत्तन्मण्डलगताष्टचत्वारिंशद्योजनकषष्टिभागतदनन्तरयोजनद्वयोल्लकनपूर्वकं तत्तदनेतनानन्तरस्थितप्रत्येकार्धमण्डलसंस्थितिपरिभ्रमणरूपेण विधिना 'णिक्खममाणे' निष्क्रामन् पूर्वस्थानादनन्तरस्थानं गच्छन् 'मूरिए' सूर्यः 'तयाणंतराओ' तदनन्तरादधमण्डलात्. 'तयाणंतरं' तदनन्तरां तदनन्तरस्थितां 'तंसि तंसि' तस्मिन् तस्मिन् 'देसंसि' देशे प्रदेशे दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा 'तं तं' तां तां 'अद्धमंडलसंठिई' भर्धमण्डलसंस्थितिं 'संकममाणे २' संक्रामन् संक्रामन् एकृस्या अर्धमण्डलसंस्थितेरपरामर्धमण्डल. संस्थितिं स्वगत्या गच्छन् २ प्रथमस्य षण्मासस्य व्यशीत्यधिकशत(१८२) तमाहोरात्रस्य पर्यन्तभागे गते सति 'दाहिणाए' दाक्षिणात्यात् दक्षिणदिग्भवात् 'अंतराए' अन्तरात् सर्वाभ्यन्तरमण्डलमधिकृत्य द्वयशीत्यधिकशत-(१८२)-तममण्डलगताष्टचत्वारिंशद्योजनैकषष्टिभागतदनन्तरबाह्ययोजनद्वयप्रमाणोपेतापान्तरालरूपात् 'भागाए' भागात् निस्सृत्य 'तस्स' तस्य सर्वबाह्यमण्डलगतस्योत्तरार्धमण्डलस्य 'आइपएसाए' आदिप्रदेशात् अदिप्रदेशमाश्रित्य 'सव्वबाहिरं' सर्वबाह्यां 'उत्तरं' औत्तराम् उत्तरदिग्भवां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सम्बबाहिरं' सर्वबाह्यां 'उत्तरं' औत्तराम् उत्तरदिग्भवां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थिति 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता 'उकोसिया' उत्कर्षिका सर्वगुर्वी-तत आधिक्याभावात् 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति, तथा 'जहण्णए' जघन्यकः सर्वलघुः ततो हीनत्वाभावात् 'दुवालसमुहुत्ते' द्वादशमुहूर्तः 'दिवसे भवई' दिवसो भवति । उपसंहरन्नाह-'एस णं' इत्यादि, 'एस णं' एतत् खलु पढमे छम्मासे' प्रथमं षण्मासम् । 'एस णं' एतत् खलु 'पढमस्स छम्मासस्स प्रथमस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानं पर्यन्तभागः ॥ अथार्धमण्डलसंस्थितिविषये द्वितीयं षण्मासं विवृणोति-से पविसमाणे' इत्यादि । 'से' अथानन्तरं निष्क्रमणानन्तरं प्रथमषण्मासस्य अन्तिमेऽहोरात्रेऽतिकान्ते सतीत्यर्थः 'पविसमाणे' प्रविशन अभ्यन्तरं गच्छन् 'मरिए' सूर्यः 'दोच्चं' द्वितीय 'छम्मासं' षण्मासं 'अयमाणे' अयन् प्राप्नुवन् ‘पढमंसि अहोरत्तंसि' प्रथमे अहोरात्रे 'उत्तराए' मौत्तरात् उत्तरदिग्भागस्थितसर्वबाह्यमण्डलसम्बन्धिनः 'अंतराए भागाए' अन्तराद् भागात् सर्वबाह्यानन्तरस्थितार्धमण्डलगताष्टचत्वारिंशद्योजनैकषष्टिभागतदनन्तरपूर्वभावियोजनद्वयप्रमाणापान्तरालरूपाद् भागात् विनिर्गत्य 'तस्स' तस्य दक्षिणदिग्भाविसर्वबाह्यानन्तरदक्षिणार्धमण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्य 'बाहिराणंतरं' बाह्यानन्तरं सर्वबाह्यमण्डलादनन्तरभूता
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy