SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१२ सू. ६ सूर्यचन्द्रयोः हेमन्तीमावृत्तिस्वरूपम् ५६५ दादि विशाखापर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् षट्षष्टिर्मुहूर्ताः, एकस्य च मुहर्तस्य सप्तविंशत्यधिकशतसंख्यका द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागाः (६६।१२७/४७), एतद्गत सप्तविंशत्यधिकशत द्वाषष्टिभागेभ्यः (१२७) चतुर्विशत्यधिकशतद्वाषष्टिभागैः (१२४) द्वौ मुद्दों लब्धौ तौ पूर्वस्थितमुहूर्तराशौ प्रक्षिप्येते जाता अष्टषष्टिमुहूर्ताः शेषास्तिष्ठन्ति त्रयो द्वाषष्टिभागाः, ततो जातोऽयं राशिः अष्टषष्टि मुहर्ताः त्रयो द्वाषष्टिभागाः, सप्तचत्वारिंशत् सप्तषष्टिभागाः (६८।३।४७)। इत्येवं रूपः । ततोस्माद् राशेः पञ्चचत्वारिंशन्मुहूर्ताः (४५) अनुराधाज्येष्ठानक्षत्रयोः शोध्यन्ते, शोधितेषु तेषु स्थिताः पश्चात् त्रयोविंशतिमुहूर्तादिकाः (२३।३।४७)। मूलनक्षत्रस्य त्रिंशन्मुहूर्तेभ्यो व्यतिक्रान्ताः, तत आगतम्-मूलनक्षत्रस्य षट्सु मुहूर्तेषु अष्टपञ्चाशति द्वाषष्टिभागेषु विंशतौ सप्तषष्टिभागेषु शेषेषु (६।५८।२०) चन्द्रश्चतुर्थी हैमन्तीमावृत्तिं प्रवर्तयतीति सूत्रोक्तं सिद्धम् ॥ सूर्यनक्षत्रयोगमाह- 'तं समयं च णं' इत्यादि स्पष्टमेव उत्तराषाढा नक्षत्रस्य चरम समये, अभिजिन्नक्षत्रस्य प्रथमसमये चतुर्थी हैमन्तीमावृत्ति सूर्यः प्रवर्त्तयतीति भावः ४।। अथ पञ्चमीं हैमन्तीमावृत्तिमाह-- 'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां प्रसिद्धानां खलु 'पंचण्हं संवच्छराणं' पञ्चानां चन्द्रादिसंवत्सराणां मध्ये 'पंचमि हेमंत पञ्चमी हैमन्तों माघमास भाविनीं 'आउर्टि' आवृत्तिं 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह योगमुपागतः सन् 'जोएई' युनक्ति प्रवर्त्तयति ? भगवानाह--'कत्तियाहिं' कृत्तिकाभिः कृत्तिकानक्षत्रेण । कृत्तिकानां कतिषु मुहूर्तादिषु शेषेषु युनक्ति ? इत्यत्राह- 'कत्तियाणं' इत्यादि 'कत्तियाण' कृत्तिकानां कृत्तिकानक्षत्रस्य 'अट्ठारस मुहुत्ता' अष्टादश मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'छत्तीसं च वावट्टिभागा' षट्त्रिंशच्च द्वाषष्टिभागाः, 'बावट्टिभागं च' एकं द्वाषष्टि भागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य सप्तषष्टि भागीकृत्य तद्गताः 'छ चुण्णियाभागा' षट् चूर्णिकाभागाः सप्तषष्टिभागाः ( १८४२६६ ) 'सेसा' शेषाः त्रिंशन्मुहूर्तेभ्यः अवशिष्टास्तिष्ठेयुस्तदा चन्द्रो हैमन्तीं माघमासभाविनीमावृत्तिं प्रवर्तयतीति भावः । तदेव प्रदर्शयति-पञ्चमी हैमन्त्यावृत्तिश्च प्रागुक्तक्रमापेक्षया दशमोत्यत्र दशकोऽङ्को ध्रियते, स रूपोनः क्रियते जातो नवकः, तेन प्राक्तनो ध्रवराशिः (५७३।३६।६) गुण्यते जातानि सप्त पञ्चाशदधिकानि एकपञ्चाशन्मुहूर्तशतानि एकस्य च मुर्तस्य चतुर्विशत्यधिकानि त्रीणि द्वाषष्टिभागशतानि एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशत् सप्तषष्टिभागाः (५१५७/३२४-१) तत एभ्यः चतुर्दशाधिकानि एकोन पञ्चा ६२६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy