SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसत्रे सूर्यनक्षत्रयोगमाह---'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगसमये च खलु 'सरिए' सूर्यः 'केणं णक्खत्तण जोएई' केन नक्षत्रेण सहगतो भूत्वा तृतीयां हैमन्तीमावृत्तिं युनक्ति प्रवर्तयति ! भगवानाह--'उत्तराहिं आसाढाहि' उत्तराभिरापाडाभिः उतराषाढानक्षत्रस्य चरमसमये अभिजितः प्रथमसमये तृतीयां हैमन्तीमावृत्ति प्रवर्त्तयति ३। अथ चतुर्थ्यावृत्ति विषये पृच्छति--'ता एएसिणं' इत्यादि 'ता' तावत् 'एएसिणं' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चानां - संवत्सराणां मध्ये 'चउत्थिं हेमंतिं आउटिं' चतुर्थी हैमन्तीमावृत्ति 'चंदे' चन्द्रः 'केणं णखत्तेणं जोएइ' केन नक्षत्रेण सहयोग प्राप्तः सन् युनक्ति प्रवर्त्तयति ? भगवानाह--'ता मूलेणं' इत्यादि 'ता' तावत् 'मूलेणं' मूलेन मूलनक्षत्रेण सहगतः प्रवर्तयति । अस्य मुहूर्तादीन् प्रदर्शयति--'मूलस्स' इत्यादि 'मूलस्स' मूलस्य 'छ मुहुत्ता' षड्मुहूर्ता 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'अट्ठावन्नं च बावद्विभागा' अष्टपञ्चाशच्च द्वाषष्टिभागाः तेषु 'बावट्ठिभागं च' एकं द्वाषष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तद्गताः 'वीसं चुण्णिया भागा' विंशतिश्णिकाभागाः(६५८२) सेसा' ५० शेषा अवशिष्टास्तिष्टेयुस्तदा चन्द्रश्चतुर्थी हैमन्तीमावृत्ति प्रवर्तयतीति । तदेव गणितेन स्पष्टयति-- इयं चतुर्थी हैमन्ती आवृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमीति तस्याः स्थानेऽष्टकोऽङ्को ध्रियते स रूपोनः क्रियते जातः सप्तकः, अनेन स प्राक्तनो ध्रुवराशिः (५७३।३६।६) गुण्यते, जातानि एकादशोत्तराणि चत्वारिंशच्छतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य द्विपञ्चाशदधिके द्वेशते द्वाषष्टिभागानाम् एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशत् सप्तषष्टिभागाः (४०११।२५२/३२ ) । तत एतेभ्यः षट्सप्तत्यधिकानि द्वात्रिंशच्छतानि, मुहूर्तानाम् , एकस्य च ६२६७ मुहर्तस्य षण्णवतिषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य अष्टषष्टयधिके द्वे शते सप्तषष्टिभागानाम् (३२७६।९६।२६७), एते मुहूर्तादिकाश्चतुर्णा नक्षत्रपर्यायाणां शोध्यन्ते स्थितानि पश्चात् पञ्चत्रिंशदधिकानि सप्तमुहर्तशतानि, एकस्य च मुहर्तस्य द्विपञ्चाशदधिकं शतं द्वाषष्टिभागानाम् , एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिभागाः (७३५ ११५५ )। तत ६२ एभ्यः पुनः–एकोन सप्तत्यधिकानि षट्मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टि भागाः एकस्य च द्वाषष्टिभागस्य षट् षष्टिः सप्तषष्टिभागाः भिजि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy