________________
चन्द्रशतिप्रकाशिका टीका प्रा. १२ सू. ६
सूर्यचन्द्रयोः हेमन्तोमावृत्तिस्वरूपम् ५६३. 'पूसेणं' पुष्येण पुष्यनक्षत्रेण सह योगयुपागतः सन् तृतीयां हैमन्तीं आवृत्ति प्रवर्त्तयति । अस्य मुहूर्त्तादीनाह – 'पूसस्स' इत्यादि, 'पूसस्स' पुष्यस्य पुष्यनक्षत्रस्य, 'ए गूणवीसं मुहुत्ता' एकोनविंशतिर्मुहूर्त्ताः 'तेतालीसं च बाबद्विभागा मुहुत्तस्स' त्रिचत्वारिंशच्च द्वाषष्टिभागा एकस्य मुहूर्त्तस्य, 'वार्वाद्विभागं च ' द्वाषष्टिभागं च 'सत्तट्ठिहा छित्ता' सप्तषष्टिधा विभज्य तद्गताः ' तेत्तीसं चुण्णिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तषष्टिभागाः ( १९–४३ ३३ ) ‘सेसा’ शेषा अवशिष्टास्तिष्ठन्ति तदा चन्द्रस्तृतीयां हैमन्तीमावृत्तिं प्रवर्त्तयति ।
६२/६७
तत्कथमिति प्रदर्श्यते - एषा तृतीयाssवृत्तिः पूर्वप्रदर्शितक्रमापेक्षया षष्ठीभवति ततस्तस्याः स्थाने षट्कोऽङ्कोधियते, स रूपोनः क्रियते जातः पञ्चकः, अनेन प्राक्तनो ध्रुवराशिः (५७३।३६।६ ) गुण्यते जातानि पञ्चषष्ट्यधिकानि अष्टाविंशति मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य अशोत्यधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रिंशत् सप्तषष्टिभागाः (२८६५ | १८०|३० ) तत ६२ |६७ एभ्यः सप्त पञ्चाशदधिकानि चतुर्विंशति मुहूर्त्तशतानि, एकस्य मुहूर्त्तस्य च द्विसप्ततिर्द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्याष्टानवत्यधिकं शतं सप्तषष्टि भागाः (२४५७
६७
त्रयाणां नक्षत्रपर्यायाणां शोध्यन्ते, स्थितानि पश्चात् अष्टोत्तराणि चत्वारि मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य पञ्चोत्तरं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः | १० ( ४०८ ) तत एभ्यः नवनवत्यधिकानि त्रीणि मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य ६२ |६७
७
चतुर्विंशति द्वषष्टिभागा, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (३९९ | > अभिजित आरभ्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् नवमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य अशीति द्वषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागाः ) अत्र द्वाषष्ट्या द्वाषष्टिभागैरेको मुहूर्त्तो लब्धः, तस्य मुहूर्त्तराशौ नवकरूपे प्रक्षेपणात् जाता दश मुहूर्त्ताः स्थिताः पश्चाद् अष्टादशद्वाषष्टि भागाः (१०।१८। ३४ । ) एते पुष्यस्य मुहूर्त्ताः व्यतिक्रान्ताः, तत आगतम् – पुष्यस्य त्रिंशन्मुहूर्त्तात्मकत्वात्तस्य एकोनविंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टि भागेषु (१९।४३।३३) सूत्रोक्तेषु शेषेषु सत्सु चन्द्रस्तृतीयां हैमन्तीमावृत्तिं प्रवर्त्तयतीति सिद्धम् ।
(
६२ ६७
”
७१