________________
'छत्ते' छत्रं लोकप्रसिद्धं, तदाकारो योगोऽपि छत्रशब्देन कथ्यते ५ । 'छनाइछत्ते' छत्रातिछत्रम्-छत्रात् एकस्माच्छत्रात् सामान्यरूपात् उपरि अन्यान्य छत्रभावतोऽतिशायिछत्रं छत्रातिच्छत्रं, तदाकारो योगोऽपि छत्रातिछत्रयोगः कथ्यते ६ । 'जुयमद्धे' युगनदः, यो युगमिव नद्धः बद्धः, यथा वृषभस्कन्धयोरारोपितं युगं वर्त्तते तत्सदृशो योगोऽपि युगनद्ध योमा कथ्यते ७ । 'घणसंमद्दे' घनसंमर्दः घनत्वेन संमर्दः परस्परं संमिलितः, यस्मिन् योगे चन्द्रः सूर्यों वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति स घनसंमर्दयोगः कथ्यते ८ । 'पीणिए' प्रीणितः पुष्टः उपचयं नीतः यः प्रथमं चन्द्रसूर्ययोरेकतरस्य ग्रहेण नक्षत्रेण एकतरेण उपस्थितः, तदनन्तरं द्वितीयेन चन्द्रेण सूर्येण ग्रहेण नक्षत्रेण वा सहोपचयं नीतः स प्रीणितयोगः कथ्यते ९ । 'मंहूयप्पुए' माण्डूकप्लुतो नाम दशमः, यो मण्डूकप्लुत्या मण्डूक कूर्दनाकारेण यो जातो योगः स मण्डूकप्लुतयोगः कथ्यते, अयं च केवलं ग्रहेणैव सह जायते, अन्यस्व माइकलुतिगमनासंभवात् । उक्तंचात्रविषये-"चन्द्रसूर्यनक्षत्राणि . प्रतिनियतगतानि, ग्रहास्त्वनियतगतयः” इति १० । युगे च छत्रातिच्छत्रयोगवर्जा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, किन्त्वेष छत्रातिच्छत्रयोगः कदाचित् कस्मिंश्चिदेव देशे भवति ततस्तद्विषयं सूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां प्रसिद्धानां खलु 'भंते' हे भदन्त ! 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये-'छत्ताइछत्तं जोग' छत्रातिच्छत्रं योगं 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएइ' युनक्ति-छत्रातिच्छत्रयोगेन सह चन्द्रः कस्मिन् देशे स्थितः सन् योगं करोति ? भगवानाह-'ता' इत्यादि, 'ता' तावत् 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वोपस्योपरि 'पाईण पडीणाययाए' प्राची प्रतीच्यायतया पूर्व पश्चिमविस्तृतया, 'उदीण दाहिणाययाए' उदीचीदक्षिणायतया उत्तरदक्षिणविस्तृतया च, चशब्दोऽत्रानुक्तोऽपि द्रष्टव्यः 'जीवाए' जीवया, जीवा प्रत्यञ्चा तत्सदृशत्वाज्जीवया दवरिकया 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन चतुर्विशत्यधिकेन शतेन (१२४) 'छित्ता' छित्वा विभज्य मण्डलस्य चतुर्विशत्यधिकशतभागान् कृत्वा, इयमत्र भावना-एकया दवरिकया बुद्धया कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मण्डलं समकार्य विभज्यते, विभक्तं च सत् चतुर्भागतया जातम् , तद्यथा-एको भाग उत्तरपूर्वस्याम् , एको भागो दक्षिणपूर्वस्याम् एको भागो दक्षिणापरस्याम् एको भागः पश्चिमोत्तरस्यामिति चतुर्विशत्यधिकशतराशेश्चतुर्भिर्भक्ते एको भाग एकत्रिंशद्भागप्रमाणो जायते, तत एकत्रिंशत्प्रमाणान् चतुरो भागान् कृत्वा 'दाहिणपुरथिमिल्लसि' दक्षिणपौरस्त्ये-दक्षिणपूर्वे दक्षिणपूर्वसम्बन्धिनि 'चउभाग मंडलंसि' चतुर्भागमण्डले मण्डलस्यैकस्मिन् एकत्रिंशद्भागरूपे एकत्रिंशद्भागेभ्य इत्यर्थः, 'सत्तावीसं भागे' सप्तशिंति भागान् 'उवाइणावित्ता' उपादाय गृहीत्वा आक्रम्येत्यर्थः तदप्रेतनं 'अट्ठावीसइमं भागं' अष्टाविंशतितमं भागं 'वीसहा छित्ता' विंशतिधा छित्त्वा अष्टाविंशति