________________
६२/६७ । अण्णा
६२६७
। ६२६७
चन्द्रप्रज्ञप्तिसूत्रे शन्मुहूर्त्तशतानि, एकस्य च मुहूर्तस्य चतुश्चत्वारिंशदधिकशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षण्णवत्यधिकानि त्रीणि सप्तषष्टिभागशतानि (४९१४ नक्षत्रपर्यायाणां शोध्यन्ते, स्थिताः पश्चात् त्रिचत्वारिंशदधिक द्विशतसंख्यका मुहूर्ताः, एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकशतसंख्यका द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तषष्टिभागाः ( २४३ १७४६ ) तत एतेभ्यः एकोनषष्ट्यधिकं मुहूर्त्तशतम् एकस्य च मुहर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (१५९२४६६ ) अभिजित आरभ्योत्तरभाद्रपदापर्यन्तानां नक्षत्राणां शोध्यन्ते स्थिताः पश्चात् चतुरशीतिर्मुहूर्ताः एकस्य च मुहूर्तस्य एकोनपञ्चाशदधिकशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वाषष्टि भागस्य एकषष्टिः सप्तषष्टिभागाः ( ८४१४९६१ ) तत एतद्गतद्वाषष्टिभागेभ्यः (१४९) चतुर्विशत्यधिकेन शतेन द्वौ मुहूत्तौ लब्धौ, तौ च पूर्वस्थितमुहूर्तराशौ प्रक्षिप्यते जाता षडशीतिर्मुहूर्ताः स्थिताः पश्चात् पञ्चविंशति षष्टिभागा, तथाहि षडशीतिमुहूर्ताः षञ्चविंशतिषिष्टिभागाः, एकषष्टिः सप्तषष्टिभागाः (८६२१६१ ) तत एभ्यः रेवल्यास्त्रिंशन्मुहूर्ताः (३०) अश्विन्यास्त्रिंशन्मुहर्ताः (३०) भरण्याः पञ्चदशमुहर्ता (१५), एवं पञ्च सप्ततिर्मुहर्ता (७५) रेवत्यश्विनी भरणोनां शोथ्यन्ते स्थिताः पश्चादेकादश मुहर्ताः शेषास्ते एव तथाहि--एकादशमुहूर्ताः, पञ्चविंशति षिष्टिभागाः, एकषष्टिः सप्तषष्टिभागाः (११।२५६१) एते मुहर्तादिकाः कृत्तिका नक्षत्रस्य त्रिंशन्मुहर्तेभ्योऽतिक्रान्ताः तत आगतम्-कृत्तिका ६२६७ नक्षत्रस्याष्टादशसु मुर्तेषु, षट्त्रिंशति षष्टि भागेषु षट्सु सप्तषष्ठि भागेषु (१८/२६ ६ )
६२६७ . शेषेषु चन्द्रः पञ्चमी हैमन्तीमावृत्ति प्रवर्त्तयतीति सूत्रोक्तं सिद्धम् ५ । सूर्यनक्षत्रयोगमाह-- 'तं समयं च णं' इत्यादि पूर्व प्रदर्शितमेव, तथाहि-चन्द्रनक्षत्रयोगसमये सूर्य उत्तराषाढानक्षत्रस्य चरमसमये अभिजितः प्रथमसमये पञ्चमी हैमन्तीमावृत्तिं प्रवर्त्तयतीति भावः ।
तदेवमुक्ताश्चन्द्रसूर्यनक्षत्रयोगमधिकृत्य सूर्यस्य दशाप्यावृत्तयः, साम्प्रतं सूर्यावृतिप्रसङ्गाच्चन्द्रस्याप्यावृत्तयो वक्तव्याः, ताः कति ? इति पूर्व करणगाथायामुक्तम्-"चंदस्स य आउट्टी सयं