SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १२ सू. ६ सूर्यचन्द्रयोः हैमन्तीमावृत्तिस्वरूपम् ५५९ अन्त्येन राशिना एककलक्षणेन गुणिता मध्यराशिः पञ्च तेन जाताः पञ्चैव, तेषां दशभिर्भागेडूते लभ्यते अर्द्ध पर्यायस्य, त्रिंशदधिकाष्टादशशत (१८३०) परिमितपरिपूर्णपर्यायस्यार्द्ध भवति पञ्चदशोत्तरं शतनवकम् (९१५), तत्र ये विंशतिः सप्तषष्टिभागाः पाश्चात्येऽयने पुण्यस्य गताः, शेषा ये स्थिताश्चतुश्चत्वारिंशत् सप्तषष्टिभागास्ते साम्प्रतमस्माद् राशेः शोध्यन्ते, स्थितानि शेषाणि एकसप्तत्यधिकानि अष्टौशतानि (८७१) तेषां सप्तषष्टया भागो हियते लब्धास्त्रयोदश, पश्चान्न किमपि तिष्ठति । एभित्रयोदशभिश्चाश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शोध्यन्ते तत आगतम्-अभिजिन्नक्षत्रस्य प्रथमसमये हैमन्ती प्रथमा अवृत्तिः प्रवर्तते । उत्तराषाढानक्षत्रस्य परिपूर्ण उपभोगो जातस्तत उक्तम्-'उत्तराषाढानक्षत्रस्य चरमसमये' इति । एवं सर्वा अपि हेमन्तकालसम्बन्धिनो माघमासभाविन्यः सर्वाः अपि आवृत्तयः सूर्यनक्षत्रमाश्रित्य उत्तराषाढानक्षत्रे परिणे भुक्ते सति अभिजिन्नक्षत्रस्य प्रथमसमये प्रवृत्ता भवन्तीति ज्ञातव्यम् । उक्तञ्च "बाहिरओ पविसंतो, आइच्चो अभिइजोगमुवगम्म । सव्वा आउट्टीओ, करेइ सो माघमासम्मि" ॥१॥ छाया--बाह्यतः-बाह्यमण्डलात्-अन्तः प्रविशन् आदित्यः अभिजिद् योगमुपगम्य । सर्वा आवृत्तीः करोति स माघमासे ॥ इति अथ द्वितीय हैमन्त्यावृत्तिविषयकं सूत्रमाह-'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां प्रसिद्धानां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्चं हेमंति' द्वितीयां हैमन्तीम्-हेमन्तर्तुव्यापिनी माघमासभाविनीम् 'आउट्टि' आवृत्ति 'चंदे' चन्द्रः 'केणं नक्खत्तणं' केन नक्षत्रेण सह योगमुपागतः सन् 'जोएइ' युनक्ति प्रवर्तयति ? । भगवानाह—'ता सयभिसयाहिं' इत्यादि 'ता' तावत् 'सयभिसयाहिं' शतभिषग्भिः शतभिषगूनक्षत्रेण युक्तः सन् द्वितीयां हैमन्तीमावृत्ति प्रवर्त्तयति किं प्रमाणे मुहूर्तादिभिः शेषैः प्रवर्तयति ! इति प्रदर्शयति-'सयभिसयाणं' इत्यादि, 'सयभिसयाणं' शतभिषजां शतभिग्नक्षत्रस्य 'दुन्निमुहुत्ता' द्वौ मुहूत्र्ती, अट्ठावोसं च बावट्ठि भागामुहुत्तस्स' एकस्य च मुहूर्तस्य अष्टाविंशति षिष्टिभागाः 'बावट्ठिभागं च' द्वाषष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तद्गताः 'छत्तालीसं' षट्चत्वारिंशत् 'चुणिया भागा' चूणिका भागाः सप्तषष्टिभागाः 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः द्वितीयां हैमन्तीमावृत्ति प्रवर्तयतीति । तदेव गणितेन स्पष्टयति-प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमास भाविनी आवृत्तिश्चतुर्थी भवतीति चतुष्कोऽङ्कोध्रियते, रूपोने कृते जातस्त्रिकः, अनेन प्राक्तनो ध्रुवराशिः (५७३।३६।६) गुण्यते, जातानि सप्तदश शतानि एकोनविंशत्यधिकानि मुहूर्तानाम् ,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy