SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ६७ चन्द्रप्रज्ञप्तिसू एकस्य च मुहूर्तस्याष्टोत्तरं शतद्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य अष्टादश सप्तषष्टिभागाः (१७१९१०८।१८) । तत एभ्यः अष्टात्रिंशदधिकानि षोडशशतानि मुहूर्तानाम् , एकस्य च मुहूर्त्तस्याष्टचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकं शतं सप्तषष्टिभागानाम् योनक्षत्रपर्याययोः शोध्यन्ते स्थिताः पश्चात्-एकाशीतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य अष्टपञ्चाशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य विंशतिः सप्तपष्टिभागाः (८११८२ । अस्मादराशेर्भूयोऽपि नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विंशति द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः, ( ९६८) अभिजिन्नक्षत्रस्य शोध्यन्ते, स्थिताः पश्चात् द्वासप्ततिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकविंशतिः सप्तषष्टिभागाः (७२३२१) । पुनरेतस्मात् त्रिंशन्मुहूर्ता श्रवणस्य पुनस्त्रिंशद् धनिष्ठायाः शोध्याः, अवतिष्ठन्ते पश्चात् द्वादश मुहूर्ताः एते द्वादश मुहूर्त्ता शतभिजो व्यतिक्रान्ताः ततः शतभिषग्नक्षत्रं चार्द्धनक्षत्रम् पञ्चदशमुहूर्तात्मकत्वात् , तत आगतम्-शतभिषग्नक्षत्रस्य द्वयोर्मुहूर्तयोः शेषयोः सतोः, तथा एकस्य च मुहूर्तस्य अष्टाविंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तपष्टिभागेषु (२२८६) शेषेषु १/६७ ६२/६७ चन्द्रो द्वितीयां हैमन्तीमावृतिं प्रवर्त्तयतोति सिद्धम् । अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खलु 'सूरिए' सूर्यः 'केणं नक्खत्तेणं जोएइ' केन नक्षत्रेण सह योगमुपागतो द्वितीयां हैमन्तीमावृत्तिं प्रवत्र्तयतोति प्रश्नः । भगवानाह'उत्तराहि आसाढाहिं' इत्याधुत्तरम्, तथाहि-उत्तराषाढानक्षत्रेण, तस्योत्तराषाढानक्षत्रस्य चरम समये अभिजितः प्रथम समये, इति पूर्वं प्रदर्शितमेव, सूर्यस्य सर्वत्राभिजितः प्रथम समय एव हैमन्त्यावृत्तीनां प्रवर्तकत्त्वात् ।। ___ अथ तृतीय हैमन्त्यावृत्तिविषयं सूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि गं' एतेषां खलु "पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'तच्चं हेमंति' तृतीयां हैमन्ती माघमासभाविनीम् 'आउटिं' आवृत्तिं 'चंदे' चन्द्रः 'केणं णखत्तेणं जोएइ' केन नक्षत्रेण सह युक्तो भूत्वा युनक्ति ? प्रवर्त्तयति ? भगवानाह-'ता पूसेणं' इत्यादि, 'ता' तावत्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy