SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्रे मुपागतः सन् युनक्ति प्रवर्त्तयति ! भगवानाह-'ता तावत् 'हत्थेणं हस्तेन हस्तनक्षत्रेण सहगतः सन् प्रथमां हैमन्तीमावृत्तिं प्रवर्त्तयति । अस्य मुहूर्तादीनाह-'हत्थस्सणं' इत्यादि, 'हत्थस्सणं'हस्तस्य खलु 'पंचमुहुत्ता' पञ्चमुहूर्ताः, 'पण्णासं च बावद्विभागा मुहुत्तस्स' एकस्य मुहूर्तस्य च पञ्चाशद् द्वाषष्टिभागाः, 'बावट्ठिभागं च' द्वाषष्टिभागं च 'सत्तट्ठिहा छित्ता'सप्तषष्टिधा छित्त्वा तद्गताः 'सट्ठी' षष्टिः 'चुणिया भागा' चर्णिका भागाः (५५०६°) सेसा' शेषा अवशिष्टाः तिष्ठेयुस्तदा ६२६७ चन्द्रः प्रथमां हैमन्तीमावृत्तिं प्रवर्तयतीति भावः । तत्कथमिति प्रदर्शयति हैमन्ती प्रथमा आवृत्तिः प्रागुक्तक्रमापेक्षया द्वितीयाऽस्ति ततस्तत्स्थाने द्विकोऽङ्कोध्रियते, स रूपोनो जात एककः, तेन प्रागुक्तो ध्रुवराशिः (५७३।३६।६) गुण्यते जातस्तावानेव (५७३३६६), तत एतस्मात् एकोनपञ्चाशदधिकानि पञ्चशतानि मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट् षष्टिः सप्तषष्टिभागाः (५४९२१६६ ) अभिजिदादीनामुत्तरफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यन्ते, शोधिते च स्थिताः पश्चात् चतुर्विशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य एकादश द्वाषष्टि भागाः, एकस्य च द्वापष्टिभागस्य सप्तषष्टिभागाः (२४२१ तत आगतम्-हस्तनक्षत्रस्य एतावत्परिमितेषु मुहूर्त्तादिषु व्यतिक्रान्तेषु तदन्तरं तस्य त्रिंशन्मुहूर्तात्मकत्त्वात् पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तपष्टिभागेषु (५/१०६०) शेषेषु चन्द्रः प्रथमां हैमन्तीमावृत्ति प्रवर्त्तयतीति सिद्धम् १ । सम्प्रति सूर्यनक्षत्रविषयं सूत्रमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खलु चन्द्रनक्षत्रयोगसमये 'मूरिए' सूर्यः 'केणं णक्खत्तेणं जोएइ' केन नक्षत्रेण सह योगमुपागतः सन् प्रथमां हैमन्तीमावृत्ति युक्ति-प्रवर्त्तयति ? भगवानाह—'ता उत्तराहिं आसाढाहिं' इत्यादि, 'ता' तावत् 'उत्तराहिं आसाढाहिं' उत्तराभिराषाढाभिः उत्तराषाढानक्षत्रेण युक्तः सन् प्रथमां हैमन्तीमावृत्तिं प्रवर्तयति । अथ विशेषमाह-'उत्तराणं आसाढाणं' उत्तराणामाषाढानाम् उत्तराषाढानक्षत्रस्य 'चरमसमए' चरमसमये, उत्तराषाढानक्षत्रं परिपूर्णमुपभुज्य अभिजिन्नक्षत्रस्य प्रथमसमये सूर्यः प्रथमां हैमन्तीमावृत्तिं प्रवर्त्तयतीति भावः । तत्कथमित्युपदर्यते-अत्र त्रैराशिकं क्रियते-यदि दशभिरयनैः पञ्चसूर्यकृतानि नक्षत्राणि लभ्यन्ते तदा एकेन अयनेन कति सूर्यकृतनक्षत्राणि लभ्यन्ते ? राशित्रयस्थापना-१०।५।१। ततः ६२/६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy