SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५५५ ६२०६७ भागाः (१२-४७१३) यदा 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः पञ्चमी वार्षिकी मावृत्ति श्रावणमासभाविनी प्रवर्त्तयतीति । तथाहि पञ्चमी श्रावणी आवृत्तिः प्राक् प्रदर्शितक्रमापेक्षया नवमी भवति ततोऽत्र नवकोऽङ्को ध्रियते, तस्मिन् रूपोने कृते जाता अष्ट, एभिरष्टभिश्चप्रागुक्तो ध्रुवराशिः-५७३२६ = ) गुण्यते, जाताश्चतुरशीत्यधिकानि पञ्चचत्वारिंशच्छतानि (४५८४) मुहूर्ताः, एकस्य च मुहूर्तस्य अष्टाशीत्यधिके द्वे द्वाषष्टि भागशते (२८८), एकस्य च डाष्टिभागस्य अष्टचत्वारिंशद (४८) सप्तषष्टिभागाः (४५८७२६८४८) । तत एभ्यश्चत्वारिंशन्मुहूर्तशतानि पञ्चनवत्यधिकानि, एकस्य च मुहूर्तस्य विंशत्यधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रिंशदधिकानि त्रीणि शतानि सप्तषष्टिभागाः ४०९५/१२०३३०) पञ्चनक्षत्रपर्यायाणां शोध्यन्ते, स्थितानि पश्चात् चत्वारि मुहूर्तशतानि एकोननवत्यधिकानि, एकस्य च मुहूर्तस्य त्रिषष्टयधिकं शतं द्वाष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टि भागाः (४८९ १६२५३) पुनरेतेभ्यो नवत्यधिकानि त्रीणि मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुर्विशति ६७ द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः ( जित आरभ्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् नवतिमुहूर्ताः, एकस्य च मुहूर्तस्य अष्ट त्रिंशदधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशद् सप्तषष्टिभागाः (९० १३८५-१)। ततोऽष्टत्रिंशदधिकशतद्वाषष्टि भागेभ्यश्चतुर्विशत्यधिक शत द्वाष्टि भागै द्वै मुहूतौ लब्धौ, तौ च पश्चात्स्थिते नवति रूपे मुहूर्तराशौ प्रक्षिप्येते, जाता द्विनवति मुहर्ताः (९२), स्थिताः शेषा ये चतुर्दश, ते चतुर्दश द्वाषष्टिभागाः, तत आगताः-द्विनवतिर्मुहूर्ताः एकस्य च मुहूर्तस्य चतुर्दश द्वाषष्टि भागा, एकस्य च द्वाषष्टि भागस्य चतुष्पञ्चाशत् सप्तषष्टि भागाः (९२ १४) । तत एतद्गत मुहूर्तराशेः पञ्चसप्ततिः (७५) मुहूर्ताः पुष्यादिमधा पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् सप्तदश मुहूर्ताः (१७), शेषा द्वाषष्टि भागाः सप्त ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy