SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५५४ भागस्य एकचत्वारिंशत् सप्तषष्टिभागाः (३ द्वाषष्टिभागैरेको मुहूर्त्तो लब्धः स च पूर्वस्थिते त्रिकरूपे मुहूर्त्तराशौ क्षिप्यते, जातास्ते चत्वारो मुहूर्त्ताः, शेषाः स्थिताः एकोनत्रिंशद् द्वाषष्टिभागाः, ततो जायन्ते चत्वारो मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य एकोनत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य एकचत्वारिंशत् सप्तषष्टि २९ ४१ भागाः ( ४ एते च युद्धादिकाः रेवती नक्षत्रस्यातिकान्तास्तत आगतम्—रेवती - |६२/६ नक्षत्रस्य त्रिंशन्मुहूर्त्तात्मकत्वात् तस्य पञ्चविंशतौ मुहूर्तेषु द्वात्रिंशति द्वाषष्टिभागेषु षड्विंशतौ (२५६३) सूत्रकेषु शेषेषु सत्सु चन्द्रखतुर्थी श्राविणीमावृत्तिं प्रवर्त्तय सप्तषष्टिभागेषु ), चन्द्रश तत्र एकनवति द्वाषष्टिभागेभ्यो द्वाषष्ट्या तीति सिद्धम् ४ । सम्प्रति तत्समयगतं सूर्यनक्षत्रयोगं प्रदर्शयति- 'तं समयं च णं' इत्यादि, 'तं समयं चणं' तस्मिन् चन्द्रनक्षत्रयोगरूपे समये च खलु 'सूरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह गतः सन् चतुर्थी श्रावणीमावृत्ति 'जोए ' 'युनक्ति प्रवर्त्तयति ? भगवानाह - 'ता पूसेणं' तावत् पुष्येण सहगतो भूत्वा प्रवर्त्तयति । अत्र विशेषमाह – 'पूसस्स' पुष्यस्य पुष्यनक्षत्रस्य 'तं चेव' इति तदेव प्रथमावृत्ति प्रकरणोक्तवदेव विज्ञेयम् - पुष्यस्य एकोनविंशति मुहूर्त्ताः, त्रिचत्वारिंशद् द्वाषष्टि भागाः, त्रयस्त्रिंशत् चूर्णिका भागाः ( १९ " यदि शेषा भवेयुस्तदा सूर्यश्वतुर्थी श्राविणीमावृत्ति प्रवर्त्तयतीति भावः || ४ || अधुना पञ्चमीमावृत्ति प्रदर्शयति - ' ता एएसि णं' इत्यादि, 'ता तावत् 'एएसि णं' एतेषां खलु 'पंचण्डं संवच्छरणं' पश्चानां संवत्सराणां मध्ये 'पंचमं' पश्चमीं 'वासिक्कि' वार्षिकीं वर्षाकालभाविनीम् ‘आउट्टि' आवृत्ति 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह योगमुपागतः सन् ‘जोएइ' युनक्ति - प्रवर्त्तयतीति प्रश्नः । भगवानाह - 'ता पुव्वाहिं' इत्यादि, 'ता' तावत् 'पुब्वाहिं फग्गुणीहिं' पूर्वाभ्यां फाल्गुनीभ्याम् द्वितारकत्वाद् द्विवचनं कृतं, प्राकृते द्विवचनाभावात् सूत्रे बहुवचनम्, पूर्वाफाल्गुनीनक्षत्रेण योगं कुर्वन् चन्द्रः पञ्चमीं वार्षिकीमावृत्तिं प्रवर्त्तयतीति भावः अथास्य मुहूर्त्तादिकं प्रदर्शयति- 'पुव्वाफग्गुणीणं' पूर्वाफाल्गुन्योः पूर्वाफाल्गुनी नक्षत्रस्येत्यर्थः 'बारसमुहुत्ता' द्वादशमुहूर्त्ताः, 'सत्तालीसं च बावट्ठिभागा' सप्तचत्वारिंशच्च द्वाषष्टिभागाः, 'मुहुतस्स' एकस्य मुहूर्त्तस्य, तथा 'बावद्विभागं सत्तद्विहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा विभज्य एकं द्वाषष्टिभागं सप्तषष्टिधा कृत्वा तत्सम्बन्धिनः 'तेरसचुण्णिया भागा' त्रयोदश चूर्णिका
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy