________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५५३ अथ चतुर्थीमावृत्ति प्रदर्शयति- -'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'चउत्थि' चतुर्थी 'वासिक्कि' वार्षिकी वर्षाकालभाविनीं श्रावणमासभाविनीमित्यर्थः 'आउटि' आवृत्तिं 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण योगमुपागतः सन् 'जोएई' युनक्ति प्रवर्त्तयति ? भगवानाह'रेवई हिं' रेवतीभिः अस्या द्वात्रिंशत्तारकात्मकत्वाद् बहुवचनम् , रेवतीनक्षत्रेण सह युक्तश्चन्द्रश्चतुर्थी श्रावणीमावृत्तिं प्रवर्त्तयति । अस्या मुहूर्तादिकमाह- 'रेवईणं' इत्यादि, 'रेबईणं' रेवतीनां रेवतीनक्षत्रस्य 'पणवीसं मुहुत्ता' पञ्चविंशतिर्मुहर्ताः 'बत्तीसं च बावट्ठिभागा' द्वात्रिंशच्च द्वाषष्टिभागा 'मुहुत्तस्स' एकस्य मुहूर्तस्य, तथा 'बावहिभागं च' एकं द्वाषष्टिभागं च 'सत्तढिहा छित्ता' सप्तषष्टिधा छित्वा एकस्य द्वाषष्टि भागस्य सप्तषष्टि भागान् कृत्वा तन्मध्यात् 'छब्बीसं चुणिया भागा' षड् विंशतिश्चूर्णिका भागाः सप्तषष्टि भागाः ( २५३२२६ ) यदि
शेषास्तिष्ठेयुस्तदा चन्द्रश्चतुर्थी श्राविणीमावृत्तिं प्रवर्तयतीति । तत्कथं भवेदित्याह-प्राक् प्रदर्शित क्रमापेक्षया श्रावणमासभाविनी चतुर्थी आवृत्तिः सप्तमी भवति ततः सप्तकोऽको ध्रियते, तस्मिन् रूपोने कृते जातः षट्कः, तेन प्राक्तनो ध्रुवराशिः (५७३-३६।६) गुण्यते जातानि अष्टात्रिंशदधिकानि चतुस्त्रिंशच्छतानि (३४३८) मुहूर्तानाम् एकस्य च मुहूर्तस्य षोडशोत्तरे द्वे शते (२१६ द्वाषष्टिभागानाम् , एकस्य च द्वाषष्टि भागस्य षद् त्रिंशत् (३६) सप्तषष्टिभागाः ( ३४३८२१६२६ ) तत एतेभ्यः षट् सप्तत्यधिकद्वात्रिंशच्छतमुहूर्ताः, एकस्य च मुहूर्तस्य ( २४२०६२७ षण्णवति षिष्टि भागाः एकस्य च द्वाषष्टिभागस्य चतुष्षष्टयधिकद्विशतसंख्यकाः सप्तषष्टि भागाः ( ३२७६।१६२६४ ) चतुर्णा नक्षत्रपर्यायाणां शोध्यन्ते, स्थितं पश्चाद् द्वाषष्टयधिक मुहूर्तस्य शतम् , एकस्य च मुहूर्तस्य षोडशाधिकं द्वाषष्टिभागशतम् , एकस्य च द्वाषष्टि भागस्य चत्वारिंशत् सप्तषष्टिभागाः ( १६२११६३० ), तत एतेभ्यः एकोनषष्टयधिक मुहूर्तशतम् एकस्य च मुहूर्तस्य चतुर्विशति द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तषष्टि भागाः (१५९२११६६ ) अभिजिदादीनामुत्तरभाद्रपदा पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् त्रयोमुहूर्ताः, एकस्य च मुहूर्तस्य एकनवति षिष्टिभागाः एकस्य च द्वाषष्टि