SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे एकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः (६५४ / ९४ / २६), तत एभ्य एकोन |६२/६७ ५५२ पञ्चाशदधिकानि पञ्चमुहूर्तशतानि, एकस्य च मुहूर्त्तस्य विंशतिर्द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (५४९ (५४९ ) अभिजित आरम्य उत्तरफाल्गुनी पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थितं पश्चात् पञ्चोत्तरं मुहूर्त्तशतं, एकस्य च मुहूर्त्तस्य एकोन सप्तति र्द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः (१०५ ७ ५६९/२७ '६२ ६७ अत्र स्थितेभ्य एकोनषष्टि द्वाषष्टिभागेभ्यो द्वाषष्ट्या द्वाषष्टिभागैरेको मुहूर्त्तो लभ्यते, स च पूर्वस्थिते पञ्चोत्तरशतरूपे मुहूर्त्तराशौ प्रक्षिप्यते, जातः स मुहूर्त्तराशिः षडुत्तरं शतम्, स्थिता पश्चात् सप्तद्वाषष्टिभागाः, तेन जात एष राशिः षडुत्तरं मुहर्त्तशतम् एकस्य च मुहूर्त्तस्य सप्तद्वाष्ट भागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः १०६ ८६३३६३० । तत एतेभ्यो मुहूत्र्त्तेभ्यः पञ्चसप्ततिर्मुहूर्त्ताः (७५) हस्तादि स्वातिपर्यन्तानां त्रयाणां नक्षत्राणां शोध्याः, स्थिताः शेषा एकत्रिंशन्मुहूर्त्ताः, सप्त द्वाषष्टिभागाः सप्तविंशतिः सप्तषष्टिभागाः (३१ _७(२७), एतेषु मुहूर्त्तादिषु विशाखा नक्षत्रस्यातिक्रान्तेषु ततो विशाखा नक्षत्रस्य पञ्चचत्वारिं ६२६७ शन्मुहूर्त्तात्मकत्वात्तस्य त्रयोदशसु मुहूर्त्तेषु चतुष्पञ्चाशतिद्वाषष्टिभागेषु चत्वारिंशति सप्तषष्टि भागेषु (१३।५४।४०) शेषेषु चन्द्रस्तृतोयां श्राविणीमावृत्तिं प्रवर्त्तयतीति ३। साम्प्रतं तत्समयगतं सूर्यनक्षत्रयोगं प्रदर्शयति 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगकाले च खलु 'मुरिए' सूर्यः 'केणं नक्खत्तेणं' केन नक्षत्रेण सह गतः सन् ‘जोएइ' युनक्ति तृतीयां श्राविणीमावृत्ति प्रवर्त्तयति ? भगवानाह 'ता पूसेणं' इत्यादि 'ता' तावत् 'पूसेणं' पुष्येण सहगतः सन् तृतीयां श्रावणीमावृत्ति प्रवर्त्तयति तस्य मुहूर्त्तादिकमाह–‘पूसस्स' पुष्यस्य 'तं चेव' तदेव प्रथमावृत्तिप्रदर्शितवदेव मुहूर्त्तादिकं विज्ञेयम्, तथाहि - पुष्यस्य एकोनविंशतिर्मुहूर्त्ताः, त्रिचत्वारिंशद् द्वाषष्टिभागाः, त्रयस्त्रिंशत् सप्तषष्टि भागाः (१९४३|३३) शेषास्तिष्ठेयुस्तदा सूर्यः पुष्येण सहगतो भूत्वा तृतीयां श्राविणीमावृत्तिं प्रवर्त्तय ६२/६१ तीति भावः ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy