SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिकाटीका प्रा.१२ सू. ५ सूर्यन्द्रयोः आवृत्तिस्वरूपम् ५५१ सर्वा आवृत्तीः करोति तस्य (युगस्य) श्रावणे मासे ॥१॥ इति अत एव सूत्रकारेण 'पुस्सेणं' इत्याद्युक्तम् २ । अथ तृतीयां श्रावणमासभाविनीमावृत्ति प्रदर्शयति-'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु 'पंचण्हं संबच्छराणं' पञ्चानां संवत्सराणां मध्ये 'तच्चं' तृतीयां 'वासिक्कि' वार्षिकी वर्षाकालभाविनी श्रावणमासभाविनी मित्यर्थः 'आउहि आवृत्ति 'चंदे' चन्द्रः 'केणं नक्खत्तेणं' केन नक्षत्रेण सह योगमुपागतः सन् 'जोएइ' युनक्ति प्रवर्तयति ? भगवानाह-'ता विसाहाहि' इत्यादि, 'ता' तावत् 'विसाहाहि विशाखाभिः पञ्चतारकत्वाद् बहुवचनम् , विशाखा नक्षत्रेण सह योगं कृत्वा चन्द्रस्तृतीयां श्राविणीमावृत्तिं प्रवर्त्तयति । विशाखानक्षत्रस्य मुहूर्तादिकमाह-'विसाहाणं' इत्यादि, 'विसाहाणं' विशाखानां विशाखानक्षत्रस्य 'तेरसमुहुत्ता' त्रयोदश मुहूर्ताः, 'चउप्पण्णं च बावद्विभागा' चतुष्पञ्चाशञ्च द्वाषष्टिभागा 'मुहुत्तस्स एकस्य मुहूर्तस्य, तथा 'बावटिभागं च' द्वाषष्टिभागं च मुहूर्तस्य 'सट्टिहा छित्ता सप्तषष्टिधा छित्त्वा विभज्य एकस्य द्वाषष्टिभागस्य, सप्तषष्टिभागान् कृत्वा तेभ्यः 'चत्तालीसं चुण्णिया भागा' चत्वारिंशत् चूर्णिका: अतिश्लक्ष्णत्वेन र्णिका इव चूर्णिका भागाः सप्तषष्टि भागाः (१३५४) यदि 'सेसा' शेषा अवशिष्टा भवेयुस्तदा, तथा अस्य पञ्चचत्वारिंशन्मु हूर्तात्मकत्वात् एक त्रिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य सप्तद्वाषष्टि भागाः, एकस्य च द्वाषष्टि भागस्य सप्तविंशतिः सप्तषष्टिभागाः (३१-७-२७) यदा अतिक्रान्ता भवेयुस्तत्समये चन्द्रस्तुतीयामावृत्तिं प्रवर्तयतीति । तदेव प्रदर्श्यते इयं तृतीया आवृत्तिः पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी भवति ततस्तत्स्थाने पञ्चकं ध्रियते तद् रूपोनं क्रियते जातं चतुष्कम् , तेन प्राक्तनो ध्रुवराशिः (५७३ २६-) गुण्यते, जातानि द्विनवत्यधिकानि द्वाविंशतिः शतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य चतुश्चत्वारिंशदधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तपष्टिभागाः (२२९२/१४४२४) तत एतेभ्यः अष्टात्रिंशदधिकानि षोडश मुहूर्तशतानि एकस्य च मुहूर्त्तस्य अष्टचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिक शतं सप्तपष्टिभागाः (१६३८४८ १३२) परिपूर्णनक्षत्रपर्यायद्वयस्य शोध्यन्ते, स्थितानि पश्चात् चतुष्पञ्चाशदधिकानि षड् मुर्तिशतानि, एकस्य च मुहूर्तस्य चतुर्नवतिद्वाषष्टिभागाः,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy