________________
५५०
चन्द्रप्रक्षप्तिसूत्रे रोहिणिया' इति चतुर्थकरणगाथावचनात् नवोत्तराणि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति षष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः ( ३०९२४६६ ) अभिजित आरभ्य रोहिणी पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः
श६७
पश्चात् अष्टादश मुहूर्ताः, एकस्य च मुहूर्तस्य द्वाविंशति षिष्टिभागाः, एकस्य च द्वापष्टिभागस्य चतुर्दशसप्तषष्टिभागाः (१८१४ ) । एतावता मृगशिरो न शुद्धयति, तत एतावन्तो मुहूर्तादिका मृगशिरो नक्षत्रस्यातिक्रान्तास्ततो मृगशिरो नक्षत्रस्य त्रिशन्मुहर्त्तात्मकत्वात् तस्य एकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टि भागेषु ( ११२५२ ) सूत्रोक्तेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्तिं चन्द्रः प्रवर्त्तयतीति २।
साम्प्रतं चन्द्रनक्षत्रयोगसमयभाविनं सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि; 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगकाले च खलु 'मूरिए' सूर्यः 'केणं णक्खत्तणं' केन नक्षत्रेण सहगतः सन् द्वितीयां श्रावणमासभाविनीमावृत्तिं 'जोएइ' युनक्ति प्रवर्तयतीत्यर्थः । भगवानाह–'ता पूसेणं' इत्यादि ‘ता पूसेणं' तावत् पुष्येण पुष्यनक्षत्रेण सहगतो भूत्वा द्वितीया श्राविणीमावृत्ति प्रवर्त्तयति । तत्र-विशेषमाह-'पूसस्स णं' इत्यादि, 'पूसस्स णं' पुष्यस्य स्खलु 'तं चेव जं पढमाए' तदेव यत् प्रथमायाम् , अत्र तदेव वक्तव्यं यत्प्रथमायां श्रावणमासभाविन्यामावृत्तौ प्रोक्तम् तथाहि-पुष्यस्य एकोनविंशतिर्मुहूर्ताः, एकस्य चमुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् चूर्णिका भागाः (१९४२२२ ) शेषा अवतिष्ठेयुस्तदा सूर्यो द्वितीयां श्राविणीमावृत्ति प्रवर्तयतीति भावः । दह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यामयनाभ्यां चैको नक्षत्रपर्यायो लभ्यते, तत्र सूर्य उत्तरायणं कुर्वन् सर्वदैव अभिजिन्नक्षत्रेण सहगतो भूत्वा योगमुपागच्छति दक्षिणायनं कुर्वश्च पुष्येण सहगतः सन् युनक्ति उक्तञ्च---
अब्भितंराहि नितो, आइच्चो पुस्सजोगमुवगयस्स । सव्वा आउट्टीओ, करेइ सो सावणे मासे ॥१॥
छाया-आभ्यन्तराभ्यः (आवृत्तिभ्यः) नयन् बाह्या आवृत्तीः प्राप्नुवन् आदित्यः पुण्ययोगमुपगतः ।
६२६७