SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ६२६७ षष्टिभागाश्च ते एव १४/५४), एतावता राशिना पूर्व फाल्गुनी न शुद्धयति, ततो ज्ञातव्यम् पूर्व ६२/६७ फाल्गुनी नक्षत्रस्य सप्तदशमुहूर्ताः, चतुर्दश द्वाषष्टिभागाः, चतुष्पञ्चाशत् सप्तषष्टिभागाः (१७१४५४) अतिक्रान्ताः, ततोऽस्य त्रिंशन्मुहूर्तात्मकत्वात् पूर्वफाल्गुनी नक्षत्रस्य द्वादशसु मुहूतेषु सप्तचत्वारिंशति द्वाषष्टि भागेषु त्रयोदशसु सप्तषष्टिभागेषु (१२,४७,१३) सूत्रोक्तेषु शेषेषु सत्सु चन्द्रः पञ्चमीश्राविणीमावृत्तिं प्रवर्त्तयतीति सिद्धम् ॥५॥ अथ सूर्यनक्षत्रविषयं प्रश्नोत्तरमाह-'तं समयं च णं इत्यादि, 'तं समयं च णं तस्मिन् चन्द्रनक्षत्रयोगरूपे समये च खलु 'सूरिए' सूर्य 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् पञ्चमी श्राविणीमावृत्ति प्रवर्त्तयति ? भगवानाह -'ता पूसेण' इत्यादि, 'ता' तावत् 'पूसेण' पुष्येण सहगतः सूर्यः पञ्चमीमावृत्ति प्रवर्त्तयति । 'पूसस्स' पुण्यस्य 'तं चेव' तदेव प्रथमश्रावण्यावृत्ति प्रकरणोक्त मुहूर्तादिपरिमाणवदेव विज्ञेयम् , तथाहि-पुष्यस्य एकोनविंशति मुहूर्तेषु त्रिचत्वारिंशद्वाषष्टिभागेषु त्रयस्त्रिंशच्चर्णिका भागेषु (१९।४३।३३) शेषेषु सूर्यः पञ्चमी श्रावणमासमाविनीमावृत्तिं प्रवर्तयतीति भावः ।सूत्रम् ॥५॥ तदेवं प्रोक्ताश्चन्द्रनक्षत्रयोगविषयाः सूर्यनक्षत्रयोगविषयाश्च वार्षिक्यः पञ्च आवृत्तयः, साम्प्रतं हैमन्तीरावृत्तीः प्रतिपादयन्नाह-'ता एएसिणं इत्यादि । मूलम्-ता एएसि णं पंचण्हं संबच्छराणं पढमं हेमंतिं आउट्टि चंदे केणं णक्खतेणं जोएइ ? ता हत्थेणं, हत्थस्स णं पंचमुहुत्ता, पण्णासं च बावद्विभागा मुहुत्तस्स, बावद्विभागं च सत्तट्टिहा छित्ता सट्ठीचुणिया भागा सेसा । तं समयं च णं सुरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरमसमए । ता एएसिणं पंचण्हं संवच्छराणं दोच्चं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएइ ?, ता सयभिसयाणं दुन्नि मुहुत्ता, अट्ठावीसं च वावट्ठिभागा मुहुत्तस्स, बावद्विभागं च सत्तद्विहा छित्ता छत्तालीसं चुणिया भागा सेसा। तं समयं च णं सूरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरमसमए २। ता एएसिणं पंचण्हं संवच्छराणं तच्चं हेमंति आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तरस, बावट्ठिभागं च सत्तट्टिहा छित्ता तेत्तीसं चुपिणयाभागा सेसा तं समयं च णं रिए केणं णवखत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरम समए ३।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy