SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे व्याख्या- हे भदन्त ! 'ता' तावत् पूर्ववत् 'कह' कथं 'ते' तव मते 'अद्धमंडलसंठिई' भर्धमण्डलसंस्थितिः अर्धमण्डलव्यवस्था 'आहिया' आख्याता 'ति' इति 'वएज्जा' वदेत् वदतु इति भावः । 'अर्धमण्डलसंस्थितिः' इत्यस्य क आशयः ?-अर्धमण्डलस्य मण्डलार्धस्य संस्थितिः सूर्यपरिभ्रमणव्यवस्था सा अर्धमण्डलसंस्थितिरुच्यते, तथा च-इह यत् एकैकः सूर्यः एकैकाहोरात्रेण एकैकस्य मण्डलस्याभागमेव भ्रमणेन परिप्रयति अत्र कथमेकैकस्य सूर्यस्य प्रत्यहोरात्रं प्रत्येकाधमण्डलपरिभ्रमणव्यवस्था वर्तते इति प्रश्नः । भगवानाह-'तत्थ खलु' इत्यादि । 'तत्थ खलु' तत्र अर्धमण्डलसंस्थितिविचारे खलु निश्चयेन 'इमा' इयं वक्ष्यमाणा दुविहा' द्विविधा द्विप्रकारा 'अद्धमंडलसंठिई अर्धमण्डलसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता मया अन्यतीर्थकरैश्च 'तं जहा' तद्यथा सा यथा-'दाहिणा चेव' दाक्षिणात्या चैव दक्षिणदिक्चारिसूर्यविषया 'अद्धमंडलसंठिई' अर्ध. मण्डलसंस्थितिः तथा 'उत्तरा चेव' औत्तरा चैव उत्तरदिश्चारिसूर्यविषया 'अद्धमंडलसंठिई' अर्धमडलसंस्थितिः २ । पुनः प्रश्नयति-ता'क' ते' इत्यादि, ज्ञाता द्विविधा अर्धमण्डलसंस्थितिः किन्तु तत्र 'ता' तावत् प्रथमं द्वयोर्मध्ये 'कह' कथं केन प्रकारेण 'ते' तव मते 'दाहिणा' दाक्षिणात्या दक्षिणदिग्भवा दक्षिणदिक्चारिसूर्यविषया 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिः 'आहिता' आख्याता कथिता 'ति' इति 'वएज्जा' वदेत् वदतु भवान् । भगवानाह-'ता अयणं' इत्यादि, 'ता' तावत् अयण्णं अयं खलु प्रत्यक्षं दृश्यमानोऽयं 'जंबुद्दीवे दीवे' जंबूद्वीपो द्वीपः मध्यजम्बूद्वीपः 'सव्वदीवसमुदाणं' सर्वद्वीपसमुद्राणां जाव' याधत् यावत्पदेन 'सव्वभंतराए सव्वखुडाए' इत्यादि जम्बूद्वीपवर्णनं संक्षेपतः पूर्व प्रथमप्राभृतस्य प्रथमेऽन्तरप्राभृते कृतं तत्र विलोकनीयम् 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ते' प्रज्ञप्तः। 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'सव्वब्भंतरं' सर्वाभ्यन्तरां सर्वाभ्यन्तरमण्डलसम्बन्धिनीम् 'दाहिणं' दाक्षिणात्यां दक्षिणदिग्भवां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति तया गं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः ततः परमाधिक्याभावात् अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति 'जहणिया' जघन्यिका सलध्वी ततः परं हीनत्वाभावात् 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति । सूर्यः सर्वाभ्यन्तरमण्डलगतदाक्षिणात्याधमण्डलसंस्थितिमुपसंक्रान्तः सन् प्रथमक्षणादूर्व सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं शनैः शनैः तथा कथश्चिदपि मण्डलगत्या परिभ्रमति येनाहोरात्रपर्यन्तभागे ये सर्वाभ्यन्तरमण्डलगता भष्टचत्वारिशदेकषष्टिभागास्तान्, अपरं च योजनद्वयमतिक्रम्य सर्वाभ्यन्तरमण्डलानन्तरं द्वितीयं यद् उत्तरार्धमण्डलं तस्य सीमां प्राप्नोति, तदेवाह 'से' अथ तदनन्तरं 'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरदाक्षिणात्यार्धमण्डलसंस्थितितः प्रथमक्षणादूर्घ शनैः शनैर्निस्सरन् 'रिए' सूर्यः अहोरात्रेऽतिक्रान्ते सति 'ण' नवं नूतनं स्थितसंवत्सरा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy