SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिस्त्रे , शतभिषक् प्रभृतीनि अर्द्धक्षेत्राणि ततस्तेषां मध्ये एकैकस्य नक्षत्रस्य सार्द्धात्रयस्त्रिंशत् त्रयस्त्रिंशत् (३३||) सप्तषष्टिभागा भवन्ति सप्तषष्टेरर्धकरणात्, ततस्ते सार्द्धास्त्रयस्त्रिंशत् ( ३३॥ ) भागाः षड्भर्गुण्यन्ते जाते एकोत्तरे द्वे शते (२०१) । षड् नक्षत्राणि उत्तरभाद्रपदादीनि द्व क्षेत्राणि, तानमानि - उत्तरभाद्रपदा १, रोहिणी २, पुनर्वसुः, ३, उत्तरफाल्गुनी ४, विशाखा ५, उत्तराषाढा ६, एतानि षड्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त्तात्मकत्वाद् द्वयर्धक्षेत्राणीति । ततस्तेषां मध्ये प्रत्येकस्य च सप्तषष्टिभागस्यार्द्धम् (२००|) सप्तषष्टे वर्धेन ( १ ॥ ) गुणनात् एतत् षड्भिर्गुण्यते, जातानि त्र्युत्तराणि षट् शतानि (६०३) । शेषाणि एतद्व्यतिरिक्तानि पञ्चदश नक्षत्राणि श्रवणादीनि त्रिंशन्मुहूर्त्तात्मकत्वात् समक्षेत्राणि तेषां प्रत्येकस्य सप्तषष्टिभागा एव, ततः सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं पञ्चोत्तरं सहस्रम् (१००५) ततोऽभिजित एकविंशतिः (२१) सप्तषष्टिभागाः, एतेषां सर्वेषाम् - (२०१=६०३=१००५=२१) मीलने भवन्ति सप्तषष्टि भागानाम् — त्रिंशदधिकानि अष्टादश शतानि (१८३० ) । एष परिपूर्णः सप्तषष्टि भागात्मको नक्षत्रपर्यायः एतस्यार्धे कृते भवन्ति यथोक्तानि पञ्चदशोत्तराणि नवशतानि ( ९१५) । एभ्योऽभिजितः सम्बन्धिनी एकविंशतिः शोध्यते, तिष्ठन्ति शेषाणि - अष्टौ शतानि चतुर्नवत्यधिकानि (८९४) । एषां सप्तषष्ट्या भागो हियते, लब्धास्त्रयोदश (१३), शेषास्तिष्ठन्ति त्रयोविंशतिर्भागाः (२३) त्रयोदशभिश्च पुनर्वसु पर्यन्तानि नक्षत्राणि शुद्धानि, ये च त्रयोविंशति र्भागाः शेषीभूतास्तिष्ठन्ति ते मुहूर्त्तकरणार्थे त्रिंशता गुण्यन्ते, जातानि नवत्यधिकानि षट् शतानि ( ६९०), तेषां सप्तषष्ट्या भागो हियते, लब्धाः दश मूहूर्त्ताः (१०), शेषातिष्टन्ति विंशतिः, सा द्वाषष्टि भागकरणार्थं द्वाष्टया गुण्यते जातानि चत्वारिंशदधिकानि द्वादशशतानि (१२४०), एषां सप्तषष्ट्या भागो हियते, लब्धा अष्टादश द्वाषष्टि भागाः, शेषास्तिष्ठन्ति चतुस्त्रिंशत् ते च एकस्य द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागाः, तत आगतम् - पुष्यस्य दशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य अष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु ( १० १८ ६२/६७ > गतेषु, तथा पुष्यस्य त्रिंशन्मुहूर्त्तात्मकत्वात् - एकोनविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिचत्वा - रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु ( १९४३ ३३ ) सूत्रोक्तेषु शेषेषु प्रथमा श्रावणमास भाविनी सूर्यावृत्तिः प्रवर्त्तते इति । ६२ ६७ ५४८ अथ द्वितीयां श्रावणमासभाविनोमावृत्ति प्रदर्शयति- 'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां प्रमिद्धानां 'पंच' पञ्चानां 'संवच्छरणं' चान्द्रादिसंवत्सराणां मध्ये 'दोच्च' द्वितीयां 'वासिक्कि' वार्षिकीं वर्षाकालभाविनीम् 'आउट्टि' आवृत्ति सूर्यावृत्ति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy