SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४७ कानि चत्वारिशतानि (४०२), ततो ये प्राक्तनाः षष्टिः सप्तषष्टि भागास्तेऽत्र प्रक्षिप्यन्ते, जातानि द्वः षष्टयधिकानि चत्वारिशतानि (४६२) ततो येऽभिजितः सम्बन्धिनः षट् षष्टिफ्रिका भागा शोध्याः सन्ति तेऽपि पूर्वोक्तन्यायेन सप्तभिर्गुणयित्वा शोध्या भवन्तीति सप्तभिर्गुण्यन्ते, जातानि द्वाषष्टयधिकानि चत्वारिशतानि (४६२) एतानि अनन्तरोदितराशेषिष्टयधिक चतुःशत (४६२) रूपात् शोध्यन्ते, द्वयोः राश्योः समानत्वान्न किञ्चिदवशिष्यते, स्थितं पश्चात् शून्यम्, तत आगतम् ---उत्तराषाढानक्षत्रे परिपूर्णे चन्द्रेण भुक्ते सति तदनन्तरं युगेऽभिजितो नक्षत्रस्य प्रथम समये प्रथमा आवृत्तिः प्रवर्तते, अत एवोक्तं सूत्रकारेण 'अभिइस्स · ढमसमएणं' इति । ____ अथ चन्द्रनक्षत्रयोगसमये सूर्यनक्षत्रयोगं प्रदर्शयति-'तं समयं च णं' इत्यादि । 'तं समयं च णं' तस्मिन् समये चन्द्रयोगसमये च खलु 'मारिए' सूर्यः 'केणं नक्खत्तेणं जोएइ' केन नक्षत्रेण युनक्ति योगं करोति ? केन नक्षत्रेन सह योगयुक्तो भूत्वा युगस्य प्रथमामावृत्तिं प्रवर्तयतीति प्रश्नः । भगवानाह-'ता पूसेणं' तावत् पुष्येण पुष्य नक्षत्रेण सह योगमुपागतः सन् सूर्यः प्रथमामावृत्तिं प्रवर्तयतीति सामान्येन प्रोक्तम्, अथ विशेष माह'पूसस्स' इत्यादि, 'पूसस्स' पुण्यस्य पुष्यनक्षत्रस्य 'एगृणवीसं मुहुत्ता' एकोनविंशति मुहूर्ताः 'तेत्तालीसं च बावट्ठीभागा' त्रिचत्वारिंशच्च द्वाषष्टिभागा 'मुहुत्तस्स' एकस्य मुहूर्तस्य, तथा 'बावद्विभागं च सट्टिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्वा-- विभज्य तत्सम्बन्धिन: 'तेत्तीसं चुणिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तपष्टिभागा इत्यर्थः ( १९-४३/३३) एतावन्तो भागाः पुष्यष्य 'सेसा' इति शेषा अवशिष्टास्तिष्ठेयुस्तदा, तथा पुष्यस्य त्रिंशन्मुहूर्तात्मकत्वात्--दशमुहूर्ताः अष्टदश द्वाषष्टिभागाः, चतुस्विंशच्च सप्तषष्टिभागाः ( १०-१८३४ ) अतिक्रान्ता भवेयुस्तदा सूर्यो युगे प्रथमा मावृत्ति प्रवर्त्तयतीति भावः । ६२१६७ एतन्मुहूर्तादिकं कथं ज्ञायते ! इति तद् गणितेन प्रदर्श्यते- अत्रापि त्रैराशिकं कर्त्तव्यम्, तथाहि-यदि दशभिः सूर्यायनैः सूर्यकृता पञ्च नक्षत्रपर्याया लभ्यन्ते तदा एकेनायनेन कति सूर्यकृतनक्षत्रपर्याया लभ्यन्ते ? राशित्रयस्थापना-१०।५।२। अत्रान्त्येन राशिना एककरूपेण मध्यराशिः पञ्चकरूपो गुण्यते जातास्त एवेति पञ्चैव, तेषामाद्यराशिना दशकरूपेण भागो ह्वियते लब्धमई नक्षत्रपर्यायस्य । तत्र परिपूर्णो नक्षत्रपर्यायस्त्रिंशदधिकाष्टादश शत (१८३०) सप्तषष्टिभागम्पो भवतीति तदर्धं पञ्चदशाधिक नवशत रूपः (९१५) पूर्वोक्तानां (१८३०) सप्तषष्टिभागानामर्द्धः सप्तषष्टिभागरूपो नक्षत्रपर्यायो भवति । तत्कथमिति प्रथम त्रिंशदधिकाष्टादशशतरूपः परिपूर्णः सप्तषष्टिभागरूपो नक्षत्रपर्यायः प्रदश्यते-षड् नक्षत्राणि ६२६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy