________________
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४५
चन्द्रशतिप्रकाशिका टीका प्रा. १२ सू. ५
३०,
शोधनकानि (५४९) । ततः 'समाई उगुणुत्तराईं छच्चेवय सोज्झाहि विसाहासु' समानि समग्राणि एकोनसप्तत्याधिकानि षट्शतानि विशाखासु विशाखापर्यन्तेषु नक्षत्रेषु शोधय, हस्तनक्षत्रादारभ्य विशाखा पर्यन्तानां नक्षत्राणां शोधनकसंमेलनेन - एकोनसप्तत्यधिकानि षट्शतानि (६६९) शोधनकानि भवन्ति । तथाहि - हस्तस्य त्रिंशत् ३०, चित्रायास्त्रिंशत् ३०, स्वातेः पञ्चदश १५ विशाखाया पञ्चचत्वारिंशत् ४५, सर्वसंकलनया जातं विंशत्यधिकं शतम् (१२० ) एतत् पूर्वोक्तसंख्यायामे कोनपञ्चाशदधिकपञ्चशतरूपायां (५४९) प्रक्षिप्यते तत आयान्ति शोधनकानि यथोक्तानि–एकोनसप्तत्यधिकानि षट्शतानि (६६९) ततः 'मूळे सत्तेव वोयाला' मूले मूलनक्षत्रे मूल नक्षत्रपर्यन्तमित्यर्थः चतुश्चत्वारिंशदधिकानि सप्तशतानि ( ७४४) । अयं भावः - विशाखाया अनन्तरमनुराधेतिः, अनुराधाया स्त्रिंशत् ३०, ज्येष्ठायाः पञ्चदश १५, मूलस्य त्रिंशत् जाता पञ्चसप्ततिः ७५, अस्याः पूर्वराशौ एकोनसप्तत्यधिकषट्शतरूपे (६६९ ) संमेलनेन भवन्ति यथोक्तानि चतुश्चत्वारिंशदधिकानि सप्तशतानि ( ७४४ ) अभिजित आरभ्य मूलनक्षत्रपर्यन्तानां नक्षत्राणां शोधनकानीति । 'सोहण गं उत्तरा आस ढाणं' उत्तराषाढानाम् उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकम्, तथाहि - 'अट्ठसय मुगुणवोसा' अष्टौशतानि एकोनविंशत्यधिकानि ( ८१९ ) इति । अयं भावः मूलनक्षत्रादनन्तरं पूर्वाषाढेति पूर्वाषाढा नक्षत्रस्य त्रिंशत् ३० उत्तराषाढानक्षत्रस्य पञ्चचत्वारिंशत् ४५ इति जाता पञ्चसप्ततिः ७५, एष राशिः ७५ अभिजित आरभ्य मूलपर्यन्तशोधनकेषु चतुश्चत्वारिंशदधिक सप्तशतरूपेषु (७४४) संमेल्यते, जायन्ते यथोक्तानि - एकोनविंशत्यधिकानि अष्टशतानि (८१९) एतानि शोधनकानि अभिजित आरभ्य उत्तराषाढा पर्यन्तानां नक्षत्राणामिति । तत एतेषां सर्वेषामपि शोधनकानामुपरि अभिजिन्नक्षत्रस्य नवमुहूर्त्तोपरि ये भागास्तान् दर्शयति 'चउवीसं' इत्यादि, चउवीसं खलु भागाछावट्ठी चुणिया भागा' चतुर्विंशतिः खलु भागाः । द्वाषष्टिभागाः, षट्षष्टिश्चूर्णिका भागाः सप्तषष्टिभागाः ( २४|६६ ), एते अभिजित्सम्बन्धिनो भागाः पूर्वोक्तसर्व संख्योपरि विज्ञेया
इति । तत आगतम् अभिजित आरभ्य उत्तराषाढापर्यन्तस्य अष्टाविंशति नक्षत्रगर्भितस्य परिपूर्णनक्षत्रपर्यायस्य एकोनविंशत्यधिकानि अष्टशतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः ( ८१९२४ ६६ ) एतावत्परिमिताः सर्वे मुहूर्त्ता भवन्ति, एते शोधनकानीत्युच्यते । इति षष्ठगाथार्थः ॥ ६ ॥ ततः किम् ? इत्याह- 'एयाई' इत्यादि, 'एयाई' एतानि पूर्वप्रदर्शितानि
६२ ६७
६९
-