SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ६२ - सप्तषष्टया भागी ढियते, लब्धा श्चतुर्विंशतिषिष्टिभागाः (२१) शेषास्तिष्ठन्ति षट्षष्टिः ते च एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः (६६) तत आगतं यथोक्तमभिजिन्नक्षत्रस्य शोधनक "प्रमाणम् (९-२४६६) इति तृतीयगाथार्थः ॥३॥ . ६/६७ साम्प्रतं शेषनक्षत्राणां शोधनकानि प्रदर्श्यन्ते-'उगुणटुं' इत्यादि गाथात्रयेण । 'उगुणटुं' मोनमष्ठम् एकोनषष्टयधिकं शतं (१५९) पोढवया' प्रोष्ठपदा उत्तरभाद्रपदा एकोन षष्टय क्किं शतं मुहूर्तानामभिजित आरभ्य उत्तरभाद्रपदा पर्यन्तानां नक्षत्राणां शोधनकमिति भावः । समाहि-मनमुहर्ता अभिजिन्नक्षत्रस्य ? त्रिंशन्मुहूर्ताः श्रवणस्य ३०, त्रिंशद् धनिष्ठायाः ३०, अवदाश शतभिषजः १५, त्रिंशत् पूर्वभाद्रपदायाः ३०, पञ्चचत्वारिंशद् उत्तरभाद्रपदायाः ४५, सर्वसंकलनया जातम्- एकोनषष्ट्यधिकं शतं (१५९) मुहूर्तानामभिजितः आरभ्योत्तरभाद्रपदा नक्षत्रपर्यन्तं शोधनकमिति । तथा तिमु चेव नवोत्तरेसु रोहिणिया' त्रिषु चैव नवोसारेषु शतेषु रोहिणिका रोहिणी पर्यन्तमित्यर्थः शुद्धयति, अयं भावः-त्रिभिः शतैर्नवोत्तरैः (३०९) देशावित आरभ्य रोहिणी पर्यन्तानि नक्षत्राणि शोध्यन्ते-तथाहि-रेवत्यास्त्रिंशत् ३०, अश्विन्यास्त्रिमात्३०,भरण्याः पञ्चदश१५,कृत्तिकायास्त्रिंशत् ३०,रोहिण्याः पञ्चचत्वारिंशत् ४५। सर्वसंकलनया खातं पञ्चाशदधिकं शतम् (१५०), एषु पूर्वोक्तस्य एकोनषष्टयधिकशतस्य (१५९ संमेलने भवन्ति ग्मयोलराणि त्रीणि शतानि (३०९) अभिजित आरभ्य रोहिणी पर्यन्तानां नक्षत्राणां शोधक्कानीति । ततः 'तिसु नवनउइसु भवे पुणव्यसू' त्रिषु नवनवत्यधिकेषु शतेषु (३९९) पुनर्वसुः पुनर्वसु पर्यन्त मित्यर्थः । अत्रायं भावः-रोहिण्या अनन्तरं प्राप्तस्य मृगशिरस-स्त्रिंशत् ३०, आर्द्रायाः पञ्चदश १५, पुनर्वसोः पञ्चचत्वारिंशत् ४५, जाता सर्वसंकलनया नवतिः (९०) एषा संख्या पूर्वोक्तसंख्यायां नवोत्तर त्रिशतरूपायां संमेल्यते, जायन्ते नव नवत्यधिकानि त्रीणि शतानि (३९९), एतानि अभिजित आरभ्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोधनकानि । मातानि । ततः 'उत्तराफग्गू-पंचेच अउणपन्ना' उत्तराफाल्गुनी पञ्चैव एकोनपञ्चाशानि शतानि, एकोन पञ्चाशदधिकानि पञ्चशतानि (५४९) पुण्यत आरभ्य उत्तराफाल्गुनी पर्यन्तानां 'नक्षत्राणां शोधनकानि, अयं भावः-पुष्यस्य त्रिंशत् ३०, अश्लेषायाः पञ्चदश १५, मघायात्रिंशत् .२०, पूर्वाफाल्गुन्यास्त्रिंशत् ३०, उत्तराफाल्गुन्याः पञ्च चत्वारिंशत् ४५ । जातं सर्वसंकलनया 'पञ्चाशदधिकं शतम् (१५०), एतत् पुण्यत आरभ्योत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां 'शोधनकम् । एषा संख्या पूर्वसंख्यायां नवनवत्यधिकत्रिशतरूपायां (३९९) संमेल्यते, जायन्तै एकोन पञ्चाशदधिकानि पञ्चशतानि मुहूर्तानामभिजित आरम्य उत्तराफाल्गुनी पर्यन्तानां नक्षत्राणां
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy