SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ जतिप्रकाशिकाटीकाप्रा. १२ सू.५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् - पूर्व सप्तविंशतिर्गुण्यतेऽन्त्यराशिना सप्तकेन, जातं नवाशीत्यधिकमेकं शतम् (१८९) तस्यान राशिना दशकलक्षणेन भागो हियते लब्धा अष्टादश दिवसाः एकस्य दिवसस्य त्रिंशन्मुइत्ता भवन्तीति मुहूर्तानयनार्थ अष्टादशत्रिंशता गुण्यन्ते, जातानि चत्वारिंशदधिकानि पञ्चशतानि (५४०) दशभिर्भागे हते स्थिताः शेषा ये नव तेऽपि मुहर्तकरणार्थ त्रिंशता गुण्यन्ते, जाते सप्तत्यधिके द्वे शते (२७०), ततो दशभिर्भागे हूते लब्धाः परिपूर्णाः सप्तविंशतिर्मुहूर्ताः (२७), एते पूर्वमागते चत्वारिंशदधिकपञ्चशतसंख्यके (५४०) मुहर्तराशौ प्रक्षिप्यन्ते प्रक्षिप्ते च जातानि सप्तषष्टयधिकानि पञ्चशतानि (५६७)। एते मुहूर्ताः स्थाप्याः । ततो येऽपि च एकविंशतिः सप्तषष्टिभागा मध्यराशिगतास्तेऽपि मुहूर्तभागानयनाथ त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि षट्शतानि (६३०) एतानि अन्त्यराशिना सप्तकेन गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि (४४१०), एषामाद्यराशिना दशकेन भागो हरणीयः, हृते च भागे लब्धानि-एकचत्वारिंशदधिकानि चत्वारि शतानि (४४१), एते जाताः सप्तषष्टिभागा इति मुहूर्तानयनाथ सप्तषष्टया भागो हियते. लब्धाः षड्मुहूर्ताः ते वस्थापित मुहर्तराशौ सप्तषष्टयधिक पञ्चशतरूपे (५६७) प्रक्षिप्यन्ते, जातानि सर्वसंख्यया त्रिसप्तत्यधिक पञ्चशतसंख्यका (५७३) मुहूर्ताः । तत एकचत्वारिंशदधिकचतुःशतानां सप्तषष्टया भागे हते ये उद्धरिता एकोनचत्वारिंशत् (३९) तेऽपि द्वाषष्टया गुण्यन्ते जातानि अष्टादशाधिकानि चतुर्विंशतिःशतानि (२४१८) एषामपि सप्तषघ्या भागो हियते लब्धाः षट्त्रिंशत् (३६) द्वाषष्टिभागाः, शेषास्तिष्ठन्ति षट्, तेज एकस्य द्वापष्ठि भागस्य सम्बन्धिनः सप्तषष्टिभागाः चूर्णिका भागा इत्यर्थः, एतेऽपि श्लक्ष्णरूपत्वेन चूर्णिकाभागा इति कथ्यन्ते । तत आगतम् , त्रि सप्तत्यधिकानि पञ्चशतानि मुहर्तानाम् , एकस्य च मुहूत्य षट् त्रिंशद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः (५७३/३६ 4 )। एष ध्रुवराशिनिष्पन्नः ॥१॥ एकस्य च मुहूर्तस्य चतुर्विशति ष्टिषिभागाः, एकस्य द्वाषष्टिभागस्य समप्राः परिपूर्णाः षट्षष्टिः सप्तषष्टिभागाः (९-२४६६), एतत्परिमितमभिजिन्नक्षत्रस्य शोधनकं भवति । ६२/६७ एतस्य कथमुत्पत्तिः ! इति चेदुच्यते-इहाभिजिन्नक्षत्रस्य अहोरात्रसम्बन्धिनः एक विंशति सप्तषष्टिभागान् यावत् चन्द्रेण सह योगो भवति, एकस्मिन्नहोरात्रे च त्रिंशन्मुहर्ता भवन्तीति मुर्तभागानयनार्थमेंकविंशति स्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि (६३०) एषां सप्तषष्टया भागो हियते लब्धा नवमुहर्ता (९) शेषाः स्थिताः सप्तविंशतिः, ते द्वाषष्टिभागकरणार्थ द्वाषष्ट्या गुण्यन्ते जातानि चतुःसप्तत्यधिकानि षोडशशतानि (१६७४), एष
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy