SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ आवृत्तिभिरेकोनिकाभिः, गुणितो भवेत् ध्रुबराशि: । एवंमुहूर्त्तगणितं, इतो वक्ष्यामि शोधनकम् ||२॥ अभिजितो नव मुहूर्त्ता, द्विषष्टिभागाश्च भवन्ति चतुर्विंशतिः । षट्षष्टिश्च समग्राः भागाः सप्तषष्टि छेदकृताः ॥३॥ एकोनषष्ट प्रोष्ठपदा, त्रिषु चैवनत्तरेषु रोहिणिका । त्रिषु नवनवतिकेषु भवेत् पुनर्वसु उत्तरा फल्गुः ||४|| पञ्चैव एकोनपञ्चाशानि समानि एकोनसप्ततानि षडेव । शोधय विशाखासु, मूले सप्तैव चतुश्चत्वारिंशानि ॥ ५ ॥ अष्टशतमेकोनविंशं, शोधनकमुत्तराषाढ़ानाम् । चतुर्विंशतिः खलु भागाः, षट्षष्ठि चूर्णिका भागाः ||६|| एतानि शोधियत्वा यत् शेषं तद् भवेत् नक्षत्रम् । चन्द्रेण समायुक्तं, आवृत्तौ तु बोद्धव्यम् ||७|| इति । चन्द्रमि अथासां व्याख्या-'पंचसया' इत्यादि । पंचसया पडि पुण्णा तिसरा मुहुत्ताणं, त्रिसप्तत्युत्त राणि पञ्चशतानि मुहूर्त्तानाम् एकस्य मुहूर्त्तस्य च 'छत्तीस विसट्टिभागाः ' षट्त्रिंशत् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य 'छच्चेवय चुण्णिया भागा' षट् च चूर्णिका भागाः सप्तषष्टिभागाः (५७३।२६। ६_ ) एष विवक्षितकरणे ध्रुवराशिर्धियते । अस्य ध्रुवराशेः कथमुत्पत्तिः ? इति प्रथमं ध्रुव६२।६७ ७ राशेरुत्पत्तिः प्रदर्श्यते - यदि दशभिः सूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तदा एकेन सूर्यामनेन कति चन्द्रनक्षत्रपर्याया लभ्यन्ते ? अत्र राशित्रयं स्थाप्यते, तथाहि - १०१६७|१| अत्रान्त्येन राशिना एककेन मध्यो राशिः सप्तषष्टिरूपो गुण्यते जातः तावानेन सप्तषष्टिः (६७), अस्य दशभिर्भागे ढते लब्धा षट् पर्यायाः (६) शेषाः स्थिताः सप्तेति ते सप्त दशभागा : ( ६ । 2 ) तद्गतमुहूर्त्तपरिमाणमस्यामधिकृत गाथायां प्रोक्तं यत् त्रिसप्तत्यधिकानि पञ्चशतानि षत्रिंशद् द्वाषष्टिभागाः षट् च सप्त षष्टिभागाः ( ५७३ ६ ) । एतावन्तो मुहूर्त्ताः कथं ज्ञायन्ते ? इति तज्ज्ञानार्थं त्रैराशिकगणितं प्रदर्श्यते— ६२ ६७ यदि दशभिर्भागैः सप्तविंशतिर्दिनानि एकस्य च दिनस्य एकविंशतिः सप्तषष्टिभागा लभ्यन्ते तदा सप्तभिर्भागैः कति लभ्यन्ते ! राशिश्रय स्थापना - (१०/२७|२१|७| ) अत्रान्त्येन राशिना ६७ मध्यराशि गुणयित्वा गुणितफलभूतस्य राशेर्दशभिर्भागो हरणीयः, एषत्रैराशिकराशिगणितविधिः, तेन
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy