________________
प
शिकाटीका प्रा.१२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५५ शुद्धस्य च दशम्यां, प्रवर्त्तते पञ्चमी तु आवृत्तिः ५ ।
एता आवृत्तयः, सर्वा माधमासे ॥४॥ पूर्व सूर्यस्य दश आवृत्तयः प्रदर्शिताः, अथैतासु दशसु सूर्यावृत्तिषु प्रथमायां वार्षिक्यामा वृत्तौ चन्द्रनक्षत्रयोगं प्रदर्शयन् सूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसोणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पढम वासिक्किं प्रथमां वार्षिकी वर्षाकाल सम्बन्धिनी श्रावणमासभाविनीमित्यर्थः 'आउर्टि' आवृत्ति सूर्यावृत्ति 'चंदे' चन्द्रः 'केण णवखत्तण' २ केन नक्षत्रेण सह स्थितः सन् 'जोएइ' युनक्ति प्रथमायां वार्षिक्यामावृत्तिं प्रवत्तेयतीत्यर्थः ! इति गौतमेन पृष्टे भगवानाह---'ता' तावत् 'अभिइणा' अभिजिता अभिजिन्नक्षत्रेण सह स्थितः सन् युनक्तीति भावः । तत्कि परिपूर्णे अभिजिति न्यूने वा योगं युनक्तीति विशिनष्टि'अभिइस्स, इत्यादि 'अभिइस्स, अभिजिन्नक्षत्रस्य 'पढमसमएणं' प्रथमसमये 'ण' इति वाक्यालङ्कारे । एतत् कथमवसीयते ? इति चन्द्रनक्षत्रयोगपरिज्ञानार्थ वृद्धोक्ताः सप्त करणगाथाः प्रदर्श्यन्ते
"पंचसया पडिपुण्णा, तिसातरा नियमसो मुहुत्ताणं । छत्तोस बिसटिभागा, छरचेव य चुणिया भागा ॥१॥ आउट्ठीहिं एगूणियाहिं गुणिो हविज्ज धुवरासी । एयं मुहुत्तगणिय, एत्तो वोच्छामि सोहणणं ॥२॥ अभिइस्स नव मुहुत्ता, बिसद्विभागा य होंति चउवीसं ।' छावट्ठीय समग्गा भागा सत्तष्टि छेयकया ॥३॥ उगुणटुं पोट्टवया, तिसु चेव नवुत्तरेसु रोहिणिया । तिसु नवनउइएसु, भवे पुणवत्तरा फग्गू ॥४॥ पंचेव अउणपन्ना, समाइंउगुणत्तराई छारचेवः .. सोज्झाहि विसाहामुं, मूले सत्तेव चोयाला ॥५॥ अट्ठसयमुगुणवीसा,सोहणगं उत्तरा असाढाणं । चउवीसं खलु भागा, छावट्ठी चुण्णीया भागाः ॥६॥ एयाई सोहइत्ता, जं सेसं तं हवेज नक्खत्तं ।
चंदेण समाउत्त, आउट्ठीए उ बोद्धव्वं ॥७॥"इति । छाया - पंचशतानि परिपूर्णानि त्रिसप्ततानि नियमशो मुहर्तानाम् ।
षट्त्रिंशद् द्वाषष्टिभागाः, षडेव च र्णिका भागमः ॥१॥....