________________
शतिप्रकाशिका टीका प्रा. १२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५३९
अनयोर्व्याख्या- 'आउट्टीहि एगूणियाहिं' आवृत्तिभिरेको निकाभिरिति - यामावृत्तिविशिष्टतिथियुक्ताज्ञातुमिच्छेत् तस्याः संख्या एकेन हीना क्रियते, ततस्तत्संख्यया 'गुणियं सयं तु तेसीयं' त्र्यशीत्यकं शतं गुणितं कुर्यात् गुणयेदित्यर्थः, ततः पश्चात् 'जेण गुणं' यया संख्यया त्र्यशीत्यधिकं शतं गुणितं 'तं तिगुणं' तदङ्कस्थानं त्रिगुणं त्रिगुणितं कृत्वा तत् ' तत्थ' तस्मिन् पूर्वराश 'पक्खिवे' प्रक्षिपेत् ॥ १ ॥ ततो यः प्रक्षिप्तोराशिस्तस्मिन् 'पण्णरस भाइयम्मि उ पञ्चदशभिर्माजिते सति 'जं लहूं' यल्लब्धं 'तइसु पव्वेसु' तावत्सु तावत्संख्यकेषु पर्वसु अतिक्रान्तेषु सत्सु 'होइ' भवति विवक्षिता आवृत्तिरिति । अथ च 'जे अंसा' ये अंशाः भागे हृते उद्धरिताः 'ते दिवसा' ते दिवसा विज्ञेयाः । ' तत्थ' तत्र तेषु दिवसेषु तन्मध्ये चरमदिवसे इत्यर्थः 'आउट्टी' आवृत्तिः 'बोद्धव्वा' बोद्धव्या ज्ञातव्या, इति करणगाथा द्वयस्यार्थः । आवृत्तिश्च युगे श्रावणमा माघमासे च भवति ततः प्रथमा आवृत्तिः श्रावणे मासे, द्वितीया च माघमासे भवति तृतीया पुनः श्रावणमासे चतुर्थी माघमासे, भूयोऽपि पञ्चमी श्रावणमासे षष्ठी माघमासे, इति कृत्वा पञ्चवर्षात्मके युगे सूर्यस्य दश आवृत्तयो भवन्तीति । अत्र कोऽपि पृच्छेत् यत् प्रथमा किल सूर्यस्यावृत्तिः कस्यां तिथौ भवतीति, तदा प्रथमवृत्तेः प्रनत्वादत्र एकोऽङ्कः स्थाप्यते, सच 'एगूणियाहिं' इति वचनात् रूपोनः क्रियते तदा पश्चात् न किमपि रूपं लभ्यते ततः पश्चास्य युगभाविनो या दशमी आवृत्तिस्तत्संख्यादशकरूपा गृह्यते, तेन दशकेन च 'गुणियं सयं तु तेसीय ' इतिवचनात् त्र्यशीत्यधिकं शतं (१८३) गुण्यते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) ततः ' जेण गुणं तं तिगुणं' इति वचनात् दशकेन गुणितमिति ते दशत्रिगुणी क्रियन्ते जातास्त्रिंशत् (३०) ते 'रूवहियं' इति वचनात् रूपाधिकं कुर्यात् जाता एकत्रिंशत् (३१) ततः 'पक्खि वे तत्थ' इति वचनात् ते पूर्वराशौ प्रक्षिष्यन्ते, जातानि एक षष्ट्यधिकानि अष्टादशशतानि (१८६ १) ततः 'पण्णरसभाइयम्मि' इति वचनात् पञ्चदशभिरेष राशिविभज्यते, हृते च भागे लब्धं चतुर्विंशत्यधिकं शतम् (१२४) तिष्ठति शेषमेकं रूपम्, तत आगतम् - चतुर्विंशत्यधिकपर्व शतात्मके पाश्चात्ये युगे व्यतिक्रान्तेऽभिनवे • युगे प्रवर्त्तमाने प्रथमा आवृत्तिः प्रथमायां तिथौ प्रतिपदि भवतीति । एषा प्रथमा आवृत्तिः श्रावणमासभाविनी समायाता १ ।
अथ च द्वितीया माघमासभाविनी आवृत्तिः कस्यां तिथौ भवतीति प्रश्नेऽत्र द्विकं ध्रियते, तद्रूपनं कृतमिति जातमेककम् तेन त्र्यशीत्यधिकं शतं गुण्यते जातं तदेव त्र्यशीत्यधिकं शतम् (१८३) । अत्र एकेन गुणितमिति एककं त्रिगुणं क्रियते जातं त्रिकम् तद्रूपाधिकं करणीयमिति जातं चतुष्कम् (४), तत् पूर्वराशौ त्र्यशीत्यधिकशतरूपे प्रक्षिप्यते, जातं सप्ताशीत्यधिकं शतम् (१८७) तस्य पञ्चदशभिर्भागे हृते लब्धा द्वादश ( १२ ) तिष्ठन्ति शेषाः सप्त (७) तत आगतम् - युगे द्वादशसु पर्वसु गतेषु माघमासे बहुलपक्षे सप्तभ्यां तिथौ द्वितीया माघमास भाविनीनां च मध्ये प्रथमा आवृत्तिर्भवतीति २ । एवं तृतीया आवृत्तिः श्रावणमास भाविनी कस्यां