________________
प्रियते, तथाहि-यदि त्र्यशीत्यधिकशतसंख्यकैदिक्सैरेकमयनं भवति तदा त्रिंशदधिकाष्टादशशत संख्यकैदिवसः कति अयनानि लभ्यन्ते ! इति राशिंत्रयस्थापना-१८३।१।१८३० । अत्रान्स्पेन राशिना मध्यराशेरेककस्य गुणनं क्रियते जातानि तान्येव त्रिंशदधिकानि अष्टादशशतानि (१८३०)। एषामायेन राशिना त्र्यशीत्यधिकशतप्रमाणेन भागो हियते हृते च भागे लभ्यन्ते परिपूर्णा दश, तत मागतम्-युगस्य मध्ये सूर्यस्य दशअयनानीत्यावृत्तयोऽपि दशेति ।।
___ अथ चन्द्रस्यावृत्तयः प्रदर्श्यन्ते-चन्द्रस्यायनं त्रयोदशभिर्दिवसैः, एकस्य च दिवसस्य चतुश्वत्वारिंशत्सप्तष्टिभागः (१३।१४) भवति ततो यदि चतुश्चत्वारिंशत्सप्तषष्टि भागयुतैस्त्रयोदशभिर्दिवसैरेकं चन्द्रस्यायनं भवति तदा त्रिंशदधिकैरष्टादशशतैः (१८३०) दिवसैः कति चन्द्रायनानि लभ्यन्ते ! राशित्रयस्थापना-१३।१।१८३०। तत्र सवर्णनाकरणार्थमाद्यन्तरूपं राशिद्वयमपि
४४
सप्तषष्ट्या गुण्यते, तत्र प्रथमं त्रशोदशदिनानि सप्तषष्टया गुण्यन्ते जातानि एकसप्तत्यधिकानि भष्टाशतानि (८७१), एषु ये उपरितनाश्चतुश्चत्वारिंशत् (४४) सप्तषष्टिभागास्ते प्रक्षिप्यन्ते, जातानि पञ्चदशाधिकानि नवशतानि (९१५)। ततो यानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) तान्यपि सवर्णनार्थ सप्तषष्टया गुण्यन्ते, जातानि एक लक्षम् , द्वाविंशतिसहस्राणि षट्शतानि दशोत्तराणि (१२२६१०) एष राशिमध्यमकेन राशिना एककरूपेण गुण्यते, एकेन गुणने च जातस्तावानेव राशिः (१२२६१०) अस्य आधेन राशिना पञ्चदशाधिकनवशतरूपेण (९१५) भागो हियते लब्धं चतुस्त्रिंशदधिकमेकं शतम् (१३४), तत आगतम्-एकस्मिन् युगे चतुस्त्रिंशदधिकशतसंख्यकानि (१३४) चन्द्रायणानि भवन्ति, तत एतावत्यश्चन्द्रस्य भावृत्तयो जायन्ते इति प्रतिपादिताः सूर्यचन्द्रयोरावृत्तयः । साम्प्रतं 'का सूर्यस्यावृत्तिः कस्यां तिथौ
भवतीति' जिज्ञासायां वृद्धोक्तकरणगाथाद्रयमत्र प्रदर्यते
"आउट्ठीहिं एगूणियाहिं गुणियं सयं तु तेसीयं । जेणा गुणं तं तिगुणं, रूवहियं पक्खिवे तत्थ ॥१॥ पण्णरसभाइयम्मि उ, जं लद्धं तं तइसु होइ पव्वेसु । जे अंसा ते दिवसा, आउट्टी तत्थ बोद्धव्वा ॥२॥ छाया-- आवृत्तिभिरेकोनिकाभिः, गुणितं शतं तु त्र्यशीतम् । येन गुणितं तत् त्रिगुणं रूपाधिकं प्रक्षिपेत् तत्र ॥१॥ पञ्चदशभाजिते तु यदलब्धं तत् तावत्सु भवति पर्वसु । ये अंशाः ते दिवसाः, आवृत्तिस्तत्र बोद्धव्या ॥२॥ इति ।