SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.४. ऋतुवक्तव्यता प्रतिपादनम् १५३ "पाडिवय ओमरत्ते, कइया बिइया समप्पिहीइतिही । विइया एवा तइया, तइया-एवा चउत्थीउ ॥१॥ सेसासु चेवकाहिड, तिहिसु ववहार गणियदिवासु । सुहुमेण परिल्लतिही, संजायइकम्मि पव्वम्मि ॥२॥ रूवहिगा उ ओया बिगुणा पन्या हवंति कायव्वा । एमेव हवइ जुम्मे, एक्कतीसा जुया पव्वा ॥३॥ छाया–प्रतिपदि अवमरात्रे कदा द्वितीया समापयति तिथिः । द्वितीयायां वा तृतीया, तृतीयायां वा चतुर्थी तु ॥१॥ शेषासु चैव करिष्यति तिथिषु व्यवहारेगणितदृष्टासु । सूक्ष्मेण पर तिथिः, संजायते कस्मिन् पर्वणि ॥२॥ रूपाधिकास्तु औजस्यः, द्विगुणानि पर्वाणि भवन्ति कर्त्तव्यानि । एव मेव भवति युग्मायाम् एकत्रिंशद्युता पर्वाणि ॥३॥ इति ! व्याख्या चैषाम्-'पाडिवयओमरत्ते' प्रातिपदि प्रतिपत् सम्बन्धिनि अवमरात्रे इति अवमरात्रीभतायां प्रतिपदायां सत्यां 'कइया' कदा कस्मिन् पर्वणि पक्षे 'बिइया समप्पिही तिही' द्वितीया तिथिः समाप्स्यति ? प्रतिपद्दया सह द्वितीया तिथिरेकस्मिन्नहोरात्रे कदा समाप्तिमेष्यति ? इति प्रश्नः । एवम्-'बिइया एवा तइया' द्वितीयायामवमरात्रीभूतायां वा तृतीया तिथिः कदाकस्मिन् पर्वणि ! 'तइयाए चउत्थीउ, तृतीयायामवरात्रीभूतायां चतुर्थी तिथिः कस्मिन् पर्वणि समास्यति ? ॥१॥ एवम्-'सेसासु चेव कहिइ तिही ववहारगणियदिट्ठासु' व्यवहारगणितदृष्टासु लोकप्रसिद्धगणितेन परिभवितासु शेषासु चतुर्थ्यादितिथिषु अवमरात्री भूतासु पञ्चम्यादितिथयः कस्मिन् कम्मिन् पर्वणि समप्तिमेष्यतीति प्रश्नं शिष्यः 'काहिइ' इति करिष्यति, तथाहि-चतुर्यो पञ्चमी, पञ्चम्यां षष्टी, षष्ठयां सप्तमी, सप्तम्यामष्टमी, अष्टम्यां नवमी, नवम्यां दशमी, दशम्यामेकादशो, एकादश्यां द्वादशी द्वादश्यां त्रयोदशी, त्रयोदश्यां चतुर्दशी चतुर्दश्यां-पञ्चदशी पञ्चदश्यामवमरात्रीभूतायां प्रतिपदा तिथिः कस्मिन् पर्वणि समाप्स्यतोति शिष्यः प्रश्नं करिष्यतीतिभावः । यथा-'मुहुमेण' सूक्ष्मेण लक्षणेन प्रतिदिवसमेकैकद्वाषष्टिभागरूपेण भागेन परिहीयमानायां तिथौ 'परिल्लतिही' पूर्वस्या अवमरात्री भूतायास्तिथे व्यवहिततया परा परातिथिः 'संजायइ. कम्मि पव्वम्मि' कस्मिन् पर्वणि समाप्ता संजायते ? इति प्रश्नस्वरूपम् ॥२॥ अत्राचार्य आह-'रूवाहिगाउ' इत्यादि, 'रूवाहिगाउ' रूपाधिकास्तु-इह यास्तिथयः पृष्टास्ता द्विविधा भवन्ति-ओजों रूपाः, युग्मरूपाश्च,-तत्र ओज इति विषम, युग्मामात समम् । तत्र यास्तिथयः 'ओया' औजस्यः ओजोरूपा विषमा इत्यर्थः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy