SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५३२ चन्द्रप्रज्ञप्तिसूत्र दिवसमेकैको द्वाषष्टि भागो लभ्यते तत आह 'बावद्विभागमेगं दिवसं' इति द्वाषष्टि भाग एकैको दिवसे दिवसे 'संजाइ' संजायते कस्येत्याह-'ओमरत्तस्स' अवमरात्रस्य जायते । गाथायामेक शब्दो दिवसशब्दश्चागृहीतवोप्सोऽपि व्याख्यानसामर्थ्याद वीप्सां प्रापयति, 'बावट्ठिभागमेगं' इत्यत्र नपुंसकनिर्देशश्च प्राकृतत्वात् । तदेवं यदा एकैकस्मिन् दिवसे एकैको द्वाषष्ठिभागोऽवमरात्रसम्बन्धी लभ्यते तदा द्वाषष्ट्या दिवसैरेकः परिपूर्णोऽवमरात्रो भवति । कथमित्याह-दिवसे दिवसे.. ऽवमरात्रसत्कैकैकद्वाषष्टिभागवृद्धया संजायमानः द्वाषष्ठिततमो भागो द्वाषष्टितमदिवसे प्रारम्भत एव त्रिषष्ठितमा तिथिः प्रवर्तते, इति, एवं च सति य एकषष्टितमोऽहोरात्रो भवति तस्मिन्नहोरात्रे एकषष्टितमा द्वाषष्टितमा च तिथिनिधनमुपगतेति लोके द्वाषष्टितमा तिथिः पतितेति व्यवह्रियते, उक्तश्च - “एक्कंसि अहोरत्ते, दो वि तिही जत्थ निहणमेज्जासु । सोऽत्थ तिही परिहायई" एकस्मिन्नहोरात्रे द्वे अपि तिथी अत्र निधनमियास्ताम साऽत्र तिथिः परिहीयते, इतिच्छाया, एवं वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेस्तृतीये पर्वणि सति प्रथमोऽवमरात्रो भवतीति । एवं तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रो भवति २। तथा शीतकालस्य तृतीये पर्वणि मूलत एकादशे पर्वणि तृतयोऽवमरात्रो भवति ३। तस्यैव शीतकालस्य सप्तमे पर्वणि, मूलतः पञ्चदशे पर्वणि चतुर्थोऽवमरात्रः ।। तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि, मूलत एकोनविंशतितमे पर्वणि पञ्चमोऽवमरात्रः ५। तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलतस्त्रयोविंशतितमे पर्वणि षष्ठोऽवमरात्रः ६। उक्तञ्च"तइयम्मि ओमरतं, कायव्वं सत्तमम्मि पव्वम्मि । वास-हिम-गिम्ह-काले, चाउम्मासे विधीयते ॥१॥ तृतीये अवमरात्रं कर्तव्यं सप्तमे पर्वणि । । (एवं क्रमेण) वर्षा हिम-ग्रीष्मकाले चातुर्मासे विधीयन्ते ॥१॥ इतिछाया । इहाषाढाद्याऋतवो लोके प्रसिद्धि प्राप्ताः, ततो लौकिकव्यवहारापेक्षया आषाढादारभ्य प्रति दिवसमेकैक द्वाषष्टिभागहान्या वर्षाकालादि गतेषु तृतीयादिषु षट्सु पर्वसु यथोक्ताः षड् अवमरात्राः प्रतिपाद्यन्ते, वस्तुतः पुनः श्रावण बहुलपक्षप्रतिपल्लक्षणात् युगादित आरेभ्य चतुश्चतुः पर्वातिक्रमेऽवमरात्रा वेदितव्याः । अथ युगादितः कति पर्वातिक्रमे कस्यामवमरात्रीभूतायां तिथौ तया सह का तिथिः परिसमाप्स्यति ! इति चिन्तायां वृद्वोक्ताः प्रश्ननिर्वचनगर्भितास्तिस्रो गाथाः प्रदर्श्यन्ते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy