________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.४
ऋतुवक्तव्यताप्रतिपादनम् ५३१ न स्वरूपतः काऽपि हानिः, नापि च कश्चित् स्वरूपे उपचयः यत्त्विदं चन्द्रर्तुमाश्रित्यावमरात्रप्रतिपादनं, सूर्यर्तुमाश्रित्यातिरात्रप्रतिपादनं तत् सूर्यचन्द्रयोः परस्परं मासचिन्ता पेक्षयाऽवगन्तन्यम् । तथाहि-कर्ममा समपेक्ष्य चन्द्रमासश्चिन्त्यते तदाऽवमरात्रसम्भवः, अयं परस्परमासचिन्तायां भेदः, तथा चोक्तम् -
"कालस्स नेवहाणी, नविवुड्ढीवा अवटियो कालो ।
जायइ वड्ढोवड्ढी, मासाणं-एकमेकाओ ॥१॥ छाया--कालस्य नैवहानिः, नाभि वृद्धि ( किन्तु) अवस्थितः कालः । जायेते ( यत् ) वृद्धयपवृद्धी ( ते ) मासयोरे कैकस्मात् ॥ १ ॥ इति ॥ सूर्यचन्द्रमासयोरेकैका पेक्षयेत्यर्थः । तत्रावमरात्रभावना करणार्थ वृद्धोक्ते इमे द्वेगाथे प्रदश्यते
"चंद उ उ मासाणां, अंसा जे दिस्सए विसेसम्मि । ते ओमरत्त भागा, भवंति मासस्स नायव्वा ॥१॥ बावटि भाग मेगं, दिवसे संजाए ओमरत्तस्स । बावट्ठीए दिवसेहि, ओमरत्तं ताओ हवइ ॥२॥ छाया-चन्द्रर्तुमासयोः अंशा ये दृश्यन्ते विश्लेषे । ते अवमरात्रभागाः भवन्ति मासस्य ज्ञातव्याः । द्वाषष्टि भाग एकः दिवसे संजायते अवमरात्रस्य ।
द्वाषष्टया दिवसः, अवमरात्रस्ततो-भवति ॥२॥ इति अनयोरर्थः - कर्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणः, चन्द्रमासः - एकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२९३) एतावत्परिमितो भवती ति 'चंदउउमासाणं चन्द्रर्तुमासयोः चन्द्रमासपरिमाणस्य ऋतुमासपरिमाणस्येति कर्ममासपरिमाणस्य कर्ममासपरिमाणस्य च, अनयोर्द्वयोः 'विसेसम्मि' विश्लेषे कृते सति 'जे अंसा' ये अंशा उद्धृताः 'दिस्सए' दृश्यन्ते त्रिंशत्द्वाषष्टिभागरूपाः 'ते ओमरत्तभागा' ते अवमरात्रस्य भागाः 'मासस्स' एकस्य मासस्य भवन्तीति 'नायव्बा' ज्ञातव्याः, सोऽवमरात्रश्च मासद्वयस्य पर्यन्ते परिपूर्णो भवति ततस्तस्य सम्बन्धिनस्ते भागा मासस्यावसाने द्रष्टव्या इति भावः । तदेव गणितेन प्रदर्श्यते यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागा अवमरात्रस्य लभ्यन्ते तदा एकस्मिन् दिवसे कति भागा लभ्यते ? इति राशित्रयं स्थाप्यते-३०।३०।१। अत्र गणितक्रममधिकृत्यान्त्येन राशिना एककलक्षणेन मध्यमो राशि स्त्रिंशल्लक्षणो गुण्यते, जातस्तावानेव (३०), अस्य राशे रादिराशिना त्रिंशद्रूपेण भागो हियते, लब्ध एकः परिपूर्णोऽङ्कः, न किञ्चिदवशिष्टम् , तत आगतम्-प्रति