SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५३० चन्द्रप्रक्षति शीत्यधिकानि त्रिंशच्छतानि (३०८२) श्रवणत आरभ्यानुराधापर्यन्तानां त्रयोविंशतिनक्षत्राणां शोधनकानि शोध्यते स्थिते-एकत्रिंशदधिके द्वे शते (२३१) एभ्यः सप्तषष्टि (६७) ज्येष्ठायाः शोध्यते, स्थित चतुष्षष्टयधिकं शतम् (१६४), अस्मात् चतुस्त्रिंशदधिकं शंत (१३४) मूलनक्षत्रस्य शोध्यते, स्थिताः पश्चात् त्रिंशत् (३०), तत आगतम–पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिकशतभागानामध्यादवगाह्य चन्द्रो द्वयुत्तरचतुःशततमं (४०२) स्वकीयमृतुं परिसमापयतीति । तदेवं सूर्य परिमाणं चन्द्र परिमाणं च प्रोक्तम्, साम्प्रतं सूत्रमनुसरामः, तत्र लोक रूढ्या यावत्कमेकैकस्य चन्द्रोंः परिमाणं भवति तावत्कं परिमाणं प्रदर्शयति—'ता सव्वेविणं' इत्यादि । 'ता सव्वे विणं' इति 'ता' तावत् 'सव्वे वि णं' सर्वेऽपि षट्संख्याकाः प्रावृडादाय ऋतुवः 'एए' एते पूर्वोक्ताः 'चंदउऊ' चन्द्रर्त्तवः 'दुवेरमासा' द्वौ द्वौ मासौ प्रत्येकं द्वि द्वि मासप्रमाणाः सन्ति । तत्र 'ति चउप्पण्णेणर' इति त्रीणि शतानि चतुष्पश्चाशदधिकानि रात्रिन्दिवानाम्, तथा एकस्य रात्रिन्दिवस्य द्वादश च द्वाषष्टि भागाः ( ३५४-- ), इति चन्द्रसंवसररात्रिन्दिवप्रमाणम्, इत्येवं रूपेण 'आदाणेणं' आदानेन इत्येवंरूपसंवत्सरप्रमाणग्रहणेन 'गणिज्जमाणा' गण्यमानौ मासौ 'साइरेगाइं एगृणसट्ठी२ राइंदियाई एकोनषष्टिरेकोनषष्टिः रात्रिन्दिवानि सातिरेकाणि किश्चिदाधिकचयुक्तानि 'राईदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिव परिमाणेन 'आहिया' आख्यातो, चन्द्र सत्कं मासद्वयं किञ्चिदधिकैकोनषष्टिरात्रिन्दिवपरि परिमितं भवति 'तिबएज्जा' इति वदेसू कथयेत् स्वशिष्येभ्यः । तथाहि-द्वि द्वि मासप्रमाणाः षड्ऋतव इति चतुष्पञ्चाशदधिकानां त्रयाणां रात्रिन्दिवशतानां ( ३५४ ) षड्भिर्भागे हते लब्धा एकोनषष्टिरहोरात्राः, द्वादशानां द्वाषष्टिभागानां षड्भिर्भागे हूते लब्धौ द्वौ द्वाषष्टिभागौ इतितयोः सातिरेकत्वमिति । एवं च सति कर्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्रर्तुम्अधिकृत्य ब्यवहारत एकैकोऽवमरा त्रो भवति, एवं सकले कर्मसंवत्सरे षड्अवमरात्रा भवन्ति, तदेव सूत्रकारः प्रदर्शयति-तत्थ खलु' इत्यादि, 'तत्थ' तत्र तस्मिन् कर्मसंवत्सरे चन्द्रसंवत्सरमाश्रित्य व्यवहारतः 'खलु' निश्चयेन 'इमे' वक्ष्यमाणाः ‘छ ओमरत्ता पण्णत्ता' षड्अवमरात्राः प्रज्ञप्ताः 'तं जहा' तद्यथा--'तइए पव्वे' तृतीये पर्वणि प्रथमः १ । 'सप्तमे पव्वे' सप्तमे पर्वाण द्वितीयः २ । 'एक्कारसमे पव्वे' एकादशे पर्वणि तृतीयः ३ । 'पण्णरसमे पव्वे पञ्चदशे पर्वणि चतुर्थः ४ । 'एगूणवीसइमे पव्वे' एकोनविंशतितमे पर्वणि पञ्चमः ५ । 'तेवीसमे पव्वे' त्रयोविंशतितमे पर्वणि षष्ठः ६ । एते षट् अवमरात्राः प्रज्ञप्ताः चन्द्रसंवत्सरे इति । इयमत्र भावना-इह कालस्य सूर्यादि क्रियोपलक्षितस्यानादिप्रवाहपतित प्रति नियत स्वभावस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy