SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिकाटीका प्रा. १२ सु. ४ ऋतुवक्तव्यताप्रतिपादनम् ५२९ शोध्यते स्थितानि पश्चात् अष्टत्रिंशदधिकानि पञ्चशतानि (५३८), एतेभ्योऽपि चतुस्त्रिंशदधिकं शतं (१३४) पूर्वभाद्रपदाया शोध्यते, स्थितानि पश्चात् चतुरधिकानि चत्वारि शतानि (४०४) एतेभ्योऽपि एकोत्तरं शतद्वयं (०१) उत्तराभाद्रपदायाः शोध्यते, स्थितंत्र्युत्तरं शतद्वयम् (२०३) अस्मादपि चतुस्त्रिंशदधिकं शतं (१३४) रेवत्याः शोध्यते, स्थिता पश्चादेकोनसप्ततिः (६९) तत आगतम्—अश्विनीनक्षत्रस्यैकोनसप्ततिभागान् (६९) चतुस्त्रिंशदधिकशत भागा सत्कान् अवगाह्य चन्द्रो द्वितीयं स्वकीयमृतु परिसमापयतीति । अथान्तिमद्वयुत्तरचतुःशततम (४०२) चन्द्रर्त्तविषयप्रश्नेऽपि स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः स्थाप्यते, ततः प्रत्येकचन्द्रतैौ द्वयत्तरद्वयुत्तर वृद्धिक्रमेण त्र्युत्तराणि अष्टौशतानि (८०३) समायान्ति तत त्र्युत्तरैरष्टभिः शतैः (८०३) द्वयुत्तरचतुःशततमे चन्द्रत ध्रुवरा शिर्गुण्यते, जातानि द्वे लक्षे, चतुश्चत्वारिंशत् सहस्राणि, नवशतानि पञ्चदशोत्तराणि (२४४९१५), अत्र एकनक्षत्र पर्यायपरिमाणं - षष्ट्यधिकानि षट्त्रिंशच्छतानि (३६६०), एतावत्प्रमाणं भवति, तदेव प्रदर्श्यते-षट्सु अर्द्धक्षेत्रेषु प्रत्येकं सप्तषष्टिरंशाः (६७), षट्सु द क्षेत्रेषु प्रत्येक मेकोत्तरं शतद्वयम् २०१) अंशानाम्, शेषेषु पञ्चदशसु समक्षेत्रेषु नक्षत्रेषु प्रत्येक चतुस्त्रिंशदधिकं शतम् (१३४) इति । तत्र षड् अर्द्धक्षेत्राणि नक्षत्राणीति तेषां प्रत्येकं सप्तषष्ट्यांशात्मकत्वात् षट् सप्तषष्ट्या गुण्यन्ते जातानि द्वयुत्तराणि चत्वारिशतानि (४०२) एते षण्णां समक्षेत्राणामंशाः । तथा षट् द्वयर्द्धक्षेत्राणि नक्षत्राणीति तेषां प्रत्येकमेकोत्तरद्विशतांशात्मकत्वात् षड् एकोत्तरशतद्वयेन (२०१) गुण्यन्ते, जातानि षडुत्तराणि द्वादश शतानि (१२०६ ) एते षण क्षेत्र नक्षत्राण | मंशाः । तथा शेषाणि पञ्चदश नक्षत्राणि समक्षेत्राणीति तेषां प्रत्येकं चतुस्त्रिंशदधिकशतांशात्मकत्वात् पञ्चदश चतुस्त्रिंशदधिकेन शतेन (१३४) गुण्यन्ते जातानि दशोत्तराणि विंशतिशतानि (२०१०), एते पञ्चदशानां समक्षेत्रनक्षत्राणामंशा इति । एते त्रयोऽपि राशय एकत्र मील्यन्ते, जातानि अष्टादशाधिकानि षट् त्रिंशच्छतानि (३६१८), एषु शेषस्याष्टाविंशतितमस्याभिजिन्नक्षत्रस्य द्विचत्वारिंशत् (४२) प्रक्षिप्यन्ते, जातानि - षष्ट्यधिकानि षट्त्रिंशच्छतानि (३६६०) इति अंशानां कोष्ठकम् षण्णामर्धक्षेत्राणामंशाः - ४०२ षण्णां चर्धक्षेत्राणामंशाः - १२०६ पञ्चदशानां समक्षेत्राणामंशाः - २०१० अभिजिन्नक्षत्रस्यांशाः - ४२ सर्व योगः - ३६६० ६७ एतावता - एकेन नक्षत्रपर्यायपरिमाणेन पूर्व राशेः (२४४९१५) भागो हियते, लब्धा षट्षष्टिः (६६) नक्षत्रपर्यायाः, पश्चादवतिष्ठन्ते - पञ्च पञ्चा शदधिकानि त्रयस्त्रिंशच्छतानि ( ३३५५) । एभ्योऽभिजितो द्वाचत्वारिंशत् शोध्यते, स्थितानि शेषाणि त्रयोदशाधिकानि त्रयत्रिंशच्छतानि (३३१३), एभ्यो द्वय
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy