________________
mmmm..चन्द्रशामिले
५२८: (३०५) गुणने कृते जायन्ते द्वे लक्षे, चतुश्चत्वारिंशत् सहस्राणि, पञ्चदशोत्तराणि नवशतानि (२४४९१५) । एषां चतुस्त्रिंशदधिकेन शतेन (१३४) भागो हियते, लब्धानि सप्तविंशत्यधिकान्यष्टादशशतानि (१८२७) । शेषास्तिष्ठन्त्यंशाः सप्तनवतिः (९७) अस्या द्विकेनापवर्तनायां जाताः सार्धा अष्टचत्वारिंशत् (४८॥) सप्तषष्टिभागाः(१।। तत आगतम्-युगादितः सप्तविंशत्यधिकेषु अष्टादशसु शतेषु (१८२७) दिवसानामतिकान्तेषु, ततः परस्य अष्टाविंशत्यधिकाष्टादशशततमस्य (१८२८) दिवसस्य सार्दुष्वष्टचत्वारिंशत्संख्यकेषु (४८॥) सप्तषष्टिभागेषु गतेषु सत्सु द्वयत्तरचतुःशततमस्य (४०२) चन्द्रोंः परिसमाप्तिर्भवतीति एतेषु च चन्द्रर्तुषु चन्द्रः नक्षत्रयोगपरिज्ञानार्थ वृद्धैः करणगाथा प्रोक्ता, तथाहि.... "सो चेव धुवो रासि, गुणरासोवि य हवंति ते चेव । । नक्खत्त सोहणाणि य, परिजाणिसु पुव्वभणियाणि ॥१॥ ... छाया -- स एव ध्रुवो राशिः गुणराशयोऽपि च भवति ते एव ।
- नक्षत्रशोधनानि, परिजानीहि पूर्वभणितानि ॥१॥ इति ! । अस्या व्याख्या-चन्द्रानां चन्द्रनक्षत्रयोगार्थ 'सो चेव धुवो रासी' इति स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिख़तव्यः । तथा 'गुणरासीवि हवंति ते चेव' गुणराशयोऽपि गुणकार राशयोऽपि एकादिका द्वयुत्तरवृद्धास्ते एव भवन्ति ये पूर्वप्रदर्शिताः, 'नक्खत्त सोहणाणि' नक्षत्रशोधनकान्यपि 'पुव्वभणियाणि' पूर्वभणितानि 'अभिहम्मि बायाला' इत्यादिवचनाद् वाचवारिंशत्प्रभृतीनि 'परिजाणसु' परिजानीहि । एवं कृते विवक्षिते चन्द्रग नियतो नक्षत्रयोगः समा गच्छतीप्ति करणगाथाक्षरार्थः । अथात्रकोऽपि पृच्छेत् यत् प्रथमे चन्द्रग कश्चन्द्रनक्षत्रयोगः । इति, तत्र स एव ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणः (३०५). स्थाप्यते, स एव प्रथमचन्द्रोंः पृष्टत्वाद् एकेन गुण्यते जातस्तावानेव (३०५) ततः 'अभिइम्मि बायाला' इति वचनात् भभिजितो द्वांचत्वारिंशत् शोध्यते, शेषे तिष्ठतः त्रिषष्ठ्यधिके द्वे शते (२६३) ततश्चतुर्विंशदधिकेन शतेन (१३४) श्रवणः शुद्धः, स्थितं पश्चादेकोनत्रिंशदधिकं शतम् (१२९), तस्य द्विकेनापवर्तना क्रियते जाताः सार्धाश्चतुः षष्टिः (६४॥) सप्तषष्टिभागाः । तत आगतम्-अमिजितः श्रवणस्य च परिभोगानन्तरं धनिष्ठायाः सार्द्धचतुष्पष्टिसंख्यकान् सप्तषष्टिभागानवगाह्य चन्द्रः स्वकीयमृतुं परिसमा. पयनीति । द्वितीयचन्द्रर्तु जिज्ञासायां स एव ध्रुवराशिः (३०५) द्वयुत्तरवृद्धिक्रमेण त्रिभिर्गुण्यते जायन्ते पञ्चदशोत्तराणि नवशतानि (९१५), तत्राभिजितो द्विचत्वारिंशत् शोध्यन्ते, स्थितानि पश्चात् त्रिसमत्यधिकानि अष्टौ शतानि (८७३), ततश्चतु स्त्रिंशदधिकं शतं (१३४) श्रवणस्य शोध्यते स्थितानि पश्चात् एकोनचत्वारिंशदधिकानि सप्तशतानि (७३९) एतस्मात् चतुस्त्रिशदधिकं शतं (१३४) धनिष्ठायाः शोभ्यते, जातानि पञ्चोत्तराणि षट् शतानि (६०५) एतस्मादपि सप्तषष्टि शतभिषजः