________________
चन्द्रप्रशतिप्रकाशिका टीका प्रा. १२ सू.४
ऋतु वक्तव्यताप्रतिपादनम् ५२७
भा.
ऋ. दि..
०६७
सस्य सार्द्धाश्चतुस्त्रिंशत् सप्तषष्टि भागा ( ५18 | २४|| ) एव मन्यस्मिन्नपि दिवसे चन्द्रर्चुरखसेयः । साम्प्रतं चन्द्रर्त्तु परिसमाप्ति दिवसानयनार्थं यद् वृद्धैः करणमुक्तं तदभिधीयते— "पुव्वंवि ध्रुवरासी, गुणिए भइए सगेण छेएणं । जं लद्धं सो दिवसो, सोमस्स उउसमत्तीए ॥१॥ छाया -- पूर्व मिव ध्रुवराशौ गुणिते भक्ते स्वकेन छेदेन । यल्लब्धं स दिवसः सोमस्य ऋतुसमाप्तौ ॥ १ ॥ इति ।
अस्य व्याख्या–इह यः पूर्वे सूर्यर्त्तुप्रतिपादने ध्रुवराशिः पञ्चोत्तर शतत्रयरूपोऽभिहितश्चतुस्त्रिंशदधिकशतभागानाम्, तस्मिन् पूर्व मिव गुणिते, तत्किमित्याह - ईप्सितेन एकादिना द्वयुत्तर चतुःशततम (४०२ ) पर्यन्तेन द्वयुत्तरवृद्धेन, एकस्मादारभ्य तत ऊर्ध्वं द्वयुत्तरवृद्धया प्रवर्द्धमानेन गुणिते 'भइए सगेण छेएणं' इति वचनात् स्वकीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्ते सति यल्लब्धं स सोमस्य चन्द्रस्य ऋतोः समाप्तौ ज्ञातव्यः ॥ १ ॥ इति करणगाथाक्षरार्थः । यथा केनापि पृच्छयते यत् चन्द्रस्य प्रथमः ऋतुः कस्यां तिथौ समाप्तिमेति ? इति तत्र पूर्वोक्तो ध्रुवराशि: (३०५) ध्रियते, अत्र प्रथमतः प्रश्नत्वादेकेन गुण्यते जातस्ता-वानेव (३०५) ध्रुवराशिः, तस्य स्वकीयेन चतुस्त्रिंशदधिकशतप्रमाणेन छेदेन भागे हृते लब्धौ द्वौ शेषा स्तिष्ठन्ति सप्तत्रिंशत् ( ३७ ) एषां द्विकेनापवर्त्तनायां जाताः सार्द्धा अष्टादश (१८ ॥ ) सप्तषष्टिभागाः । तत आगतम् - युगादितो द्वौ दिवसौ, तृतीयस्य च दिवसस्य सार्द्धान् अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रर्त्तः परिसमाप्तिमेति द्वितीयचन्द्र जिज्ञासायां स एव ध्रुवराशिः (३०५) द्वयुत्तरवृद्धिक्रमेण त्रिभिर्गुण्यते, जायन्ते पञ्चदशोत्तराणि नवशतानि ( ९१५), एषां चतुस्त्रिंशदधिकशतेन भागे हृते लब्धाः षट् । उद्धरति शेषमेकादशोत्तारं शतम् (१११), तस्य द्विकेनापवर्त्तनायां लब्धाः सार्द्धाः पञ्च पञ्चाशत् ( ५५ | | ) सप्तषष्टिभागाः । तत आगतम् - युगादितः षदिवसा अतिक्रान्ताः, सप्तमस्य दिवसस्य च सार्द्धेषु पञ्चपञ्चाशत्संख्यकेषु सप्तषष्टि भागेषु गतेषु द्वितीयश्चन्द्रतुः समाप्नोतीति । अथान्तिम द्वयुत्तर चतुः शततमर्तुः जिज्ञासायां स एव ध्रुवराशिः पञ्चोत्तरेशतत्रयप्रमाणः (३०५ ) द्व्युत्तर द्व्युत्तर वृद्धि - क्रमेण द्वयुत्तरचतुः शततमे ऋतौ त्र्युत्तराष्टशतप्रमाणः (८०३) एव राशिर्भवतीति त्र्युत्तरैरष्टभिः शतै (८०३) गुण्यते । तथाहि यस्य एकस्मादूर्ध्वं द्वयुत्तरवृद्धया राशिश्चिन्त्यते
"तस्य द्विगुणो रूपोनो भवति, यथा-द्विकस्य त्रीणि, त्रिकस्य पश्च, चतुष्कस्य सप्त, पञ्चकस्य नव, एवं क्रमेऽणात्रापि द्वयुत्तरचतुःशतप्रमाणस्य राशे द्वर्युत्तर द्वयुत्तर वृद्धया राशिश्चिन्त्यते तदा त्र्युत्तराणि अष्टौ शतानि (८०३) भवन्तीति, एवं भूतेन च राशिना (८०३) ध्रुवराशेः