SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ससयाभिहयं' चतुस्त्रिंशदधिकशतेनाभिहतं-गुणितं तत् 'पंचुत्तरतिसयसंजुयं' पञ्चोत्तर शत संयुतं कृत्वा 'विभए' विभजेत् तस्य भागं हरेत् , कैर्भागं हरेदित्याह-'छहिं उ दसुत्तरेहिय सरहिं' दशोत्तरैः षभिःशतै (६१०) इति । हूते च भागे 'लद्धा' ये लब्धा अङ्कास्ते 'उउहोइ' ऋतवो भवन्ति ऋतवो ज्ञातव्या इत्यर्थः ॥२॥ एष करणगाथा द्वयार्थः । साम्प्रतमनयो र्भावना भाव्यते-अथ कोऽपि पृञ्छेत्-यत् युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्र वर्तते ? इति । तत्राह-तत्रैकमपि पर्वपरिपूर्णमिह नाघाप्यभूदिति युगादितो दिवसा रूपोनाः स्थाप्यन्ते, ते च चत्वारः, ततस्ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्ते, जातानि षट्त्रिंशदधिकानि पञ्चशतानि (५३६), ततो भूयः पञ्चोत्तराणि त्रीणि शतानि-प्रक्षिप्यन्ते, जातानि एकच वारिंशदधिकानि अष्टौ शतानि (८ ४१ । तेषां 'विभए छहिं उ दमुत्तरेहिरा सएहि' इति वचनात् दशोतरै षडूभिः शतैः (६१०) भागो ह्रियते, लब्धः प्रथम ऋतुः अंशा उद्धरन्ति एकत्रिंशदधिके द्वे शते (२३१), तेषां चतुस्त्रिंशदधिकेन शतेन (१३४) भागो हियते, लब्ध एकः, उद्धताः शेषा अंशाः सप्तनवतिः (९७) । चतुस्त्रिशदधिकेन शतेन भागे हृते येऽङ्का लभ्यन्ते ते दिवसा ज्ञातव्याः , अत्र तु लब्ध एक-इति एको दिवसः । ततः शेषी भूताः सप्तनवतिरंशास्तेषां द्विकेनापवर्तना क्रियते, अपवर्तिते च चत्वारिंशत् लब्धाः सार्द्धा अष्ट चत्वारिंशत् (a) सप्तषष्टिभागाः । तत आग तम्-युगादितः पच्चम्यां प्रथमः ऋतुः प्रावृड्लक्षणोऽतिक्रान्तः, द्वितीयस्य ऋतोरेको दिवसो गतः ... ऋ. दि. भा. द्वितीयस्य च दिवसस्य सार्द्धा अष्टचत्वारिशत् सप्तषष्टि भागाः ( १।१।४८॥ ) इति ६७ अथ कोऽपि पृच्छेत्-युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रर्तुः ? इति । तत्रैक पर्व अतिक्रान्तमित्येको ध्रियते तस्मिन् पञ्चदशभिर्गुणिते जाताः पञ्चदश । एकादश्यां पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिर्दिवसाः, ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्ते, जातानि पञ्चाशदधिकानि त्रयस्त्रिशन्छतानि (३३५०) तेषु पञ्चोत्तराणि त्रीणि शतानि प्रक्षि यन्ते, जातानि पञ्च पञ्चाशदधिकानि षट्त्रिंशच्छतानि (३६५५), तेषां दशोत्तरैः षभिः शतैः (६१०) भागे हूते लब्धाः पञ्च (५), शेषातिष्ठन्त्यंशाः पञ्चोत्तर षट्शतसंख्यकाः (६५), तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते लब्धाश्चत्वारो. दिवसाः (४), उद्धृता शेषा अंशा एकोन सप्तति (६९), तस्य द्विकेनापवर्तनायां कृतायां लब्धाः साश्चितुस्त्रिंशत् (३४।।) सप्तषष्टि भागाः । तत आगतम्-पञ्च ऋतवोऽतिक्रान्ताः, षष्टस्य च ऋतोश्चत्वारो दिवसाः, पञ्चमस्य दिव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy