________________
चन्द्रप्रज्ञप्तिप्रकाशिका टीका प्रा.१२ सू.४
ऋतु वक्तव्यताप्रतिपादनम् ५२५ जायन्ते चत्वारि शतानि द्वयुत्तराणीति (४०२) एतावन्तो युगे चन्द्रस्य ऋतवो भवन्ति, उक्तञ्च "चत्तारि उउ सयाइं वि उत्तराई जुगम्मि चंदस्स" इति । एकैकस्य चन्द्रोंः परिमाणं परिपूर्णाश्रत्वारोऽहोरात्रा, पञ्चमस्याहोरात्रस्य सप्तत्रिंशत् मप्तषष्टि भागाः, उक्तञ्च
चंदस्सु उ परिमाणं, चत्तारि य केवला अहोरत्ता । सत्त तीसं अंसा सत्त टिकरण छेएण" ॥१॥ चन्द्रस्य ऋतु परिमाणं चत्वारश्च केबला अहोरात्राः ।
सप्तत्रिंशद् अंशाः, सप्तषष्टि कृतेन छेदेन ॥१॥ इतिच्छाया ।
कथमेतदित्याह-इहैकस्मिन् नक्षत्रपर्याये षड् ऋतव इति प्रागेवोक्तम् चन्द्रविषयक नक्षत्रपर्यायस्य परिमाणं सप्तविंशतिरहोरात्राः, एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टि भागाः, तत्राहोरात्राणां षड्लिर्भागो हियते लब्धाश्चात्वारोऽहोरात्राः शेषास्तिष्ठन्ति त्रयः, ते सप्तषष्टि भागकरणार्थं सप्तषष्टया गुण्यन्ते जाते एकोत्तरे हे शते (२०१) तत उपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते जाते द्वाविंशत्यधिके द्वे शते (२२२), तेषां षड्भिर्भागे हृते लब्धाः सप्तत्रिंशत् सप्तषष्टिभागा इति (४-३९ ) । तेषां चन्द्रनियनार्थमत्र वृद्धोक्ते व गाथे
३९
तथाहि--
"चंद उउ आणयणे, पव्वं पण्णरससंगुणं नियमा । तिहि संखितं संतं, बावट्ठी भागपरिहीणम् ॥१॥ चोत्तीससैयाभिहयं, पंचुत्तरतिसयसंजुयं विभए । छहिं उ दमुत्तरेहिय, सएहिं लद्धा उऊ होइ ॥२॥" छाया--चन्द्रनियने पर्व पञ्चदशसंगुणं नियमात् । तिथि संक्षिप्तं सत्, द्वाषष्टिभागपरिहीनम् ॥१॥ चतुस्त्रिशच्छताभिहतं, पञ्चोत्तरत्रिशतसंयुतं विभजेद् ।
षड्भिस्तु दशोत्तरैश्च शतैः लब्धा ऋतवो भवन्ति ॥२॥ अनयोख्यिा 'चंद उउ आणयणे' इति विवक्षितस्य चन्द्रौरानयने कर्तव्ये 'पव्वं' युगादितो यत् पर्व पर्वसंख्यानमतिसंक्रान्तं तत् 'पण्णरससंगुणं नियमा' पञ्चदशभिर्गुणितं नियमात् कर्तव्यम्, तत स्तत् 'तिहिसखित्तं संतं' तिथिसंक्षिप्तं सदिति यास्तिथयः पर्वाणामुपरि विवक्षिता दिनात् प्रागतिक्रान्तास्तास्तत्र संक्षिप्यन्ते पात्यन्ते इति भावः, ततस्तत 'बावद्विभागपरिहीणं' द्वाषष्टिभागपरिहीनं कुर्यात् द्वाषष्टिभागः, द्वाषष्टिभागनिष्पन्ना अवमरात्रा उपचाराद् द्वाषष्टिभाग शब्देन कथ्यन्ते, ततस्तेषष्टिभाग संज्ञकैरवमरात्रैः परिहीनं कर्त्तव्यम् तत एवम्भूतं तत् 'चोत्ती