________________
चन्द्रप्राप्तिसूत्रे ताः प्रथमं रूपाधिकाः क्रियन्ते, ओजोरूपासु तिथिषु एकं रूपं प्रक्षिप्यते इति भावः, ता रूपाधिका ओजोरूपास्तिथयः 'बिगुणा कायव्वा' द्विगुणाः कर्तव्याः एवं करणे तस्यास्तस्यास्तिथेः 'पव्वा हवंति' पर्वाणि युग्मपर्वाणि भवन्ति, तावत्परिमितानि पर्वाणि समागतानीति परिभावनीयमित्युत्तरम् । 'एमेवहवइ जुम्मे' एवमेव अनेनैव प्रकारेण एकरूपक्षेपणरूपेण युग्मरूपासु तिथिष्वपि विज्ञेयम्, तथाहि-युग्मरूपासु तिथिषु एकं रूपं प्रक्षिप्य तास्तिथयो द्विगुणी क्रियन्ते, विशेषस्त्वयम्-द्विगुणीकृता एतास्तिथयः 'एक्कतीसाजुया' एकत्रिंशद्युत्ताः कर्त्तव्याः, आसु एकत्रिंशत् प्रक्षिप्यन्ते, तदनन्तरं या संख्या समायाति तत्परिमितानि 'पव्वा' पर्वाणि-भवन्तीत्युत्तरं युग्ममितिथिविषयकमिति ॥३॥ इति गाथात्रयस्य व्याख्या । अथात्र भावना क्रियते-अत्रायं प्रश्नःयत् कस्मिन् पर्वणि-अवमरात्रीभूतायां प्रतिपदायां द्वितीया समाप्नोतीति, अत्र किल प्रतिपदुद्दिष्टा, सा च प्रथमातिथिरित्येकः स्थाप्यते, अस्या ओजोरूपत्वादेको रूपाधिकः क्रियते 'रूवाहिया उ ओया" इति वचनात्, रूपाधिके कृते जाते द्वे, ते अपि 'बिगुणा कायव्वा' इति वचनात् द्विगुणी क्रियते, जाताश्चत्वारः 'पन्वा हवंति' इति वचनात् आगतानि चत्वारि पर्वाणि ततोऽयमर्थः-युगादितश्चतुर्थे पर्वणि प्रतिपदायामवरात्रीभूतायां द्वितीया तिथिः समाप्तिमेतीति । युक्ति युक्तमेतत्, तथाहि-प्रतिपदायामुद्दिष्टायां चत्वारि पर्वाणि समागतानि, पर्व च पञ्चदशतिथ्यात्मकं भवति ततः पञ्चदशानां चतुर्भिगुणने जायते षष्टिः ।( ६० ) प्रतिपदायां द्वितीया समाप्नोतीति द्वे रूपे तत्राधिके प्रक्षेप्तव्ये ततो जाता द्वाषष्टिः, सा च द्वाष-- ष्टया भज्यमाना निरंश्पभागा भवति न किमपि शेषमवतिष्ठते, लब्धाश्चैककः, इत्यागतः प्रथमोऽवमरात्र इत्यविसंवादिकरणमिति । अथ कोऽपि पृच्छेत् कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समाप्तिमेति ? इति तदा द्वितीयाया उद्दिष्टत्वेन द्विकः स्थाप्यते, ततश्च'एमेव हवइ जुम्मे' इति वचनात् अस्य द्विकस्य रूपाधिककरणे जातानि त्रीणि रूपाणि, तानि द्विगुणी क्रियते जाताः षट्, द्वितीयातिथिश्च समेति 'एक्कतीसजुया पव्वा' इति वचनात् ते षदएकत्रिंशद् युताः क्रियन्ते जाताः सप्तत्रिंशत् ( ३७), तत् आगतानि सप्तत्रिंशत् पर्वाणि तलो युमादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां तृतीयातिथिः समाप्तिमेतीति, इदमपि करणमविसंवादि, तथाहि-पर्वकिल पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च पश्चाशदधिकानि पञ्चशतानि (५५५) द्वितीयाऽवमरात्रिरिति द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते जातानि अष्टपञ्चाशदधिकानि पञ्चशतानि, (५५८ ) पूर्ववदेषोऽपि राशिषिष्टया भज्यमानो निरंशतां प्राप्नोति, लब्धाश्च नव ? ततआगतो नवमोऽमरात्र इति युग्मतिथिविषयकमपि करणं समीचीनमिति । एवमग्रेऽपि सर्वास्वपि तिथिषु करणभावना, करणसमीचीनता अवमरात्रि संख्या च स्वयमूहनीयेति । अत्रागेतनानां पर्वणां निर्देशमात्रं क्रियते, तथाहि-तृतीयायां