SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५२२ चन्द्रप्राप्तिसूत्रे आसां छाया-त्रीणि शतानि पञ्चाधिकानि अंशाः, छेदः शतं च चतुर्विंशम् । एकादि द्वयुत्तरगुणो ध्रुवराशिर्भवति ज्ञातव्यः ॥१॥ सप्तपष्टिरर्द्धक्षेत्रे, द्विकत्रिक गुणिता समे द्वयर्धक्षेत्रे। अष्टाशीतिः पुष्ये शोध्या अभिजित् द्विचत्वारिंशत् ॥२॥ एतानि शोधयित्वा यत्शेषं तत्तु भवति नक्षत्रम् । रविसोमयोर्नियमात् त्रिंशत्यपि ऋतुसमाप्तिषु ॥३॥ आसां व्याख्या-'तिन्नि सया पंचहिगा अंसा' त्रीणि शतानि पञ्चोत्तराणि (३०५) 'अंसा' अंशाः विभागाः एते किं रूपच्छेदकृताः ! इति चेदाह-'छेओ सयंच चोत्तीसं' छेदः शतं च चतुस्त्रिंशम् । छेदोऽत्र चतुस्त्रिंशदधिकशतरूपः, तेन छिन्नं यदहोरात्रं तत्सम्बन्धीनि पञ्चोत्तराणि त्रीणि शतानि (३०५) अंशानामिति । अयमत्र ध्रुवराशिः स्थाप्यः एष ध्रवराशिः ‘एगाइ बिउत्तरगुणो धुवरासीहोइ नायव्यो' एकादिद्वयुत्तर गुणः-ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन युत्तरेण एकस्मादारभ्य तत ऊर्ध्वं द्वयुत्तरवृद्धेन गुणः गुणितः क्रियते गुण्यते इत्यर्थः । एष ध्रुवराशिख़तव्यो भवति ॥१॥ तत एतस्मात् द्वयुत्तरवृद्धेन गुणितात् शोधनकानि शोधयित यानीति शोधनक प्रतिपादिकां द्वितीयां गाथामाह-'सत्तट्ठी' इत्यादि 'सत्तट्ठी अद्धखेत्ते' यन्नक्षामर्द्धक्षेत्रं पञ्चदशमुहूर्तात्मकं तत्र सप्तषष्टिः शोधनकं भवतीति सप्तषष्ठ्या शोध्यते, 'दुगतिगगुणिया समेबियड्ढखेत्ते' द्विकत्रिकगुणिता समें द्वयर्थक्षेत्रे, तत्र यन्नक्षत्रं समक्षेत्रं त्रिंशन्मुहूर्तात्मकं तद्विगुणितयासप्तषष्टया चतुस्त्रिशेन शतेनेत्यर्थः शोध्यते यत्पुनर्नक्षत्रं द्वयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्तात्म्कं तत् त्रिगुणितया सप्तषष्टया एकोत्तरशतद्वयेनेत्यर्थः शोध्यते । इह सूर्यस्य पुष्यादीनि नक्षत्राणि शोध्यानि, चन्द्रस्याभिजिदादीनि, तत्रैषां शोधनकान्याह-'अट्ठासीई पुस्से' अष्टाशीतिः पुष्ये सूर्यनक्षत्रयोगचिन्तायां पुष्ये पुष्य नक्षत्रविषयाष्टाशीतिः 'सोमा' शोध्या । तथा 'अभिइम्मिबायाला' अभिजिति द्वाचत्वारिंशत्-चन्द्रनक्षत्रयोगचिन्तायाम् अभिजिन्नक्षत्रे द्वाच वारिंशत् शोध्याः ॥२॥ ततः किमिति तृतीयगाथया प्रदश्यते-'एयाणि' इत्यादि, 'एयाणि' एतानि शोधनकानि अर्द्धसमद्वयक्षेत्रविषयाणि 'सोहइत्ता' शोधयित्वा उक्तप्रकारेण शोधिते सति 'जं सेसं' यन्नक्षत्रं शेषं संख्यामधिकृत्य भवति न सर्वात्मना शुद्धिमश्नुते 'तं तु होइ नक्खत्तं' तन्नक्षत्रं 'रविसोमाणं नियमा' रविसोमयोः सूर्यस्य चन्द्रस्य च नियमात् भवति कुत्रेत्याह'तीसइ उउसमत्तीसु' त्रिंशत्यपि ऋतु समाप्तिषु युगस्य त्रिंशतोऽपि ऋतूनां समाप्तौ ॥३॥ इते करणगाथात्रयाक्षरार्थः । सम्प्रत्यासां भावना क्रियते-अथात्र कोऽपि पृच्छति-प्रथमऋतु कस्मिन् चन्द्रनक्षत्रे समाप्तिमियति ? इति जिज्ञासायां पूर्वप्रदर्शितो ध्रुवराशिः पञ्चोत्तरत्रिातात्मको घ्रियते, स एकेन गुण्यते 'एकेन गुणितं तदेव भवति' इति तावानेव ध्रुवराशिः (३०५ जातः ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy