________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.४
__ ऋतु वक्तव्यताप्रतिपादनम् ५२१. एककंतरियामासा, तिहीय जासु स उऊ समप्पंति । आषाढाईमासा. भद्दवयाई तिही नेया ॥१॥ छाया -- एकान्तरिताः मासाः तिथयश्च यासु ते ऋतवः समाप्नुवन्ति । आपढादयो मासाः, भाद्रपदादिकास्तिथयो ज्ञेयाः ॥१॥” इति
अस्या व्याख्या-इह सूर्यर्तुचिन्तायां मासा आषाढादयो विज्ञेयाः, आषाढमासादारभ्य ऋतूनां प्रथमतः वर्तमानत्वात् । तिथयः सर्वा अपि भाद्रपदाद्याः भाद्रपदादिषु मासेषु प्रथमादीनामृतूनां परिसमाप्तमात् । तत्र येषु मासेषु यासु च तिथिषु ऋतवः प्रावृडादयः सूर्यसम्बन्धिनः परिसमाप्नुवन्ति ते आषाढादयो मासाः, ताश्च तिथयो भाद्रपदाद्याः भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता ज्ञातव्याः, तथाहि-प्रथम ऋतुर्भाद्रपदमासे समाप्तिमेति, तत एकं मासमश्वयुग् लक्षणमवान्सरलि मुक्त्वा कर्ति के मासे द्वितीय ऋतुः परिसमाप्तिमेति । एवं तृतीयः पौषमासे, चतुर्थः फाल्गुने मासे, पञ्चगो वैशाखे मासे, षष्ट आषाढे मासे । एवं शेषा अपि ऋतव एष्वेव षट्सु मासेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु । तथा तिथिमधिकृत्य प्रथमऋतुः प्रति पदिसमाप्तिमेति, द्वितीयस्तृतीयायाम्, तृतीयः पञ्चम्याम्, चतुर्थः सप्तम्याम् पञ्चमी नवम्याम्, पठ एकादश्यामू , सप्तमस्त्रयोदश्याम् अष्टमः पञ्चदश्यामू एते सर्वेऽपि ऋतवो बहुलपक्षे । ततो क्वम ऋतुः शुक्लाक्षे द्वितीयायाम् , दशमश्चतुर्थ्याम् , एकादशः षष्ठ्याम्, द्वादश्योऽष्टम्याम् त्रयोदशो दशम्याम् चतुर्दशा द्वादश्याम् पञ्चदशश्चतुर्दश्याम् । एते सप्तऋतवः शुक्लपक्षे । एते कृष्णा क्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्याट्टै भवन्ति । तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतवो द्वितीये युगाई भवन्ति, तथाहि-षोडशऋतुर्बहुलपक्षे प्रतिपदि, सप्तदशस्तृतीयायाम , अष्टादश पञ्चम्याम् एकोनविंशतितमः सप्तम्यास् विंशतितमो नवम्याम् एकविंशतितम एकादश्याम् द्वाविंशतितमस्त्रयोदश्याम् , त्रयोविंशतितमः पञ्चदश्याम् । एते षोडशादयस्त्रयोविंशति पर्यन्ता अष्टौ बहुलपक्षे ततश्चतुर्विश तेतमः शुक्लपक्षे द्वितीयायाम् , पञ्चविंशतितमश्चतुर्थ्याम् षड् विंशतितमः षष्ठ्याम् सप्तविंशतमो द्वादश्याम् , त्रिंशत्तमश्चतुर्दश्याम् । तदेवमेते सर्वेऽपि ऋतवो युगे मासेष्वेकान्तरितेषु एवं तिथिष्वपि चैकान्तासु समाप्ता भवन्ति । एतेषां च ऋतूनां चन्द्रनक्षत्रयोगपरिज्ञानाथ सूर्यनक्षत्रयोगपरिज्ञानार्थं च वृद्धैः करणगाथात्रयं प्रोक्तं तत् प्रदर्श्यते
"तिन्नि सया पंचहिगा, अंसा छेओ सयं च चोत्तीसंएग इबिउत्तरगुणो धुवरासी होइ नायव्वो ॥१॥ सत्तट्ठी अद्धखित्ते दुगतिगगुणिया समे बियढखेत्ते । अट्ठसोई पुस्से, सोम अभिइम्मि बायाला ॥२॥ एयाणि सोहइत्ता, जं सेसं तं तु होइ नक्खतं । रवि सोमाणं नियमा तीसाबि उउ समत्तीसु ॥३॥
६६