________________
५२०
चन्द्रप्राप्तिसत्र
तिथौ प्रथमः प्रावृड् लक्षण ऋतुः समाप्तिमेति ? इति, तत्र तस्य इच्छर्तु रेक इति एकः स्थाप्यते, स 'विगुणिओ' द्विगुणितः क्रियते जाते द्वे रूपे; ते द्वे 'रूवृणो' इति रूपोने एकेन रूपेण ऊने क्रियते जात एककः स एव च पुनरपि 'विगुणिओ' द्विगुणितः क्रियते द्वाभ्यां गुण्यते जाते द्वे रूपे, ते द्वे प्रतिराश्यते तत्प्रति रूपे द्वे पुनः क्रियते. द्वे द्वे रूपे द्विवारं स्थाप्यते इत्यर्थः (२-२) तयोरेकं द्विकं 'पव्याणि' पर्वसंख्यानं भवति (२) 'तस्सद्धं' तयो एकस्य द्विकस्याई क्रियते जात मेकं रूपम् । तत्संख्यका 'तिही होइ' तिथिर्भवति । तत आगतम्-युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथम ऋतुः प्रावृड् नामा समाप्तिमगमदिते । तथा द्वितीये ऋतौ ज्ञातु मिच्छेत् तदा द्वौ स्थाप्यते, तयो भ्यां गुणने जायन्ते चत्वारः, ते रूपोनाः क्रियन्ते जातास्त्रयः, ते पुनरपि द्वाभ्यां गुण्यन्ते जातः षट् ते प्रतिराश्यन्ते-षट्कं षट्कम् इति स्थानद्वये स्थाप्यते तयो द्वितीयस्य प्रतिराशितस्य षट्कस्याद्धे क्रियते जातास्त्रयः, तत आगतम्-युगादितः षट् पर्वाण्यतिक्रम्य तृतीया तिथिरिति तृतीयायां तीथौ द्वितीय ऋतु समाप्तिमगमत् ॥ एवं यदि तृतीये ऋतौ ज्ञातु मिच्छेत्तदा त्रयः स्थाप्यन्ते, ते द्वाभ्यां गुण्यन्ते जाताः षट् ६, ते रूपोनाः क्रियन्ते जाता दश ते प्रतिराश्यन्ते द्विधा स्थाप्यन्ते दश दशे ते । तत्रैकस्य द्वितीयस्य दशकस्यार्द्ध पञ्च भवन्ति, तत आगतम्-युगादितो दशसु पर्वसु व्यतिक्रान्तेषु पञ्चम्यां तिथौ तृतीय ऋतुः समाप्तिमगच्छत् । तथा यदि षष्टे ऋतौ ज्ञातु मिच्छा भवेत्तदा षड ध्रियन्ते, ते द्वाभ्यां गुण्यन्ते जाता द्वादश, ते रूपोनकरणा ज्जाता एकादश, ते द्वाभ्यां गुणने जाता द्वाविंशतिः सा प्रतिराश्यते स्थानद्वये स्थाप्यते तत्रैकस्याः प्रतिराशीताया अर्द्ध कियते जाता एकादश तत आगतम्-युगादित आरभ्य द्वाविंशति पर्वातिक्रमे एकादश्यां तिथौ षष्ठ ऋतु समाप्तं प्राप । तथा नवमे ऋतौ ज्ञातु मिच्छेत्तदा नव ध्रियन्ते, ते द्वाभ्यां गुणयित्वा रूपोनाः क्रियन्ते जाताः सप्तदश, ते भूयोऽपि द्वाभ्यों गुणने जाताश्चतुस्त्रिंशत् ते प्रतिराश्यन्ते, प्रतिराश्य चैकस्याई क्रियते जाता सप्तदश तत आगतम्- युगादितोऽद्यप्रभृति चतुस्त्रिंशत् पर्वाण्यतिगतानि सप्तदश्यां तिथौ इति द्वितीये संवत्सरे पौषमासे शुक्लपक्षे द्वितीयां तिथौ नवम ऋतुः परिसमाप्ति मियाय । त्रिंशत्तमे ऋतौ जिज्ञासा भवेत्तदा त्रिंशत् स्थाप्यन्ते, ते द्वाभ्यां गुण्यन्ते जाताः षष्टिः, सा रूपोना क्रियते जाता एकोनषष्टिः (५९) तस्या भूयोऽपि द्वाभ्यां गुणने कृते जायतेऽष्टादशोत्तरं शतम् (११८), तत् प्रतिराश्यते (११८-११८), प्रतिराश्य चैकस्य प्रतिराशितस्याई क्रियते जातैकोनषष्टिः, तत आगतम्-युगादितोऽष्टादशोत्तरं पर्वशतमतिक्रम्य एकोन षष्टितमायां तिथौ त्रिंशत्तमऋतुर्व्यतिक्रान्तोऽभवत् । अयमाशयः-पञ्चमे संवत्सरे प्रथमे अषाढ मासे शुक्लपक्षे चतुर्दश्यां तिथौ त्रिंशत्तम ऋतुः समाप्तिं गतः, व्यवहारतः प्रथमाषाढपर्यन्ते इत्यर्थः एतस्यैवार्थस्य सुखप्रतिपत्त्यर्थमियं वृद्धोक्ता गाथा प्रदर्श्यते --