SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. ४ ऋतुवक्तव्यताप्रतिपादनम् ५१९ 'तसिं जं लद्धं' इति तेभ्यो ये लधाः सार्द्धा अष्टौ (८॥), तत आगतम्-पञ्चऋतवोऽतिक्रान्ताः पारस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गताः, तदुपरि अर्द्धत्वेन नवमो दिवसो वर्त्तते इति ।२। अथ युगे द्वितीये दीपोत्सवे केनापि पृष्टम्-कियन्त ऋतवोऽतिक्रान्ताः ? को वा संप्रतिवर्तते ? तत्राह-एतावतिकाले एकत्रिंशत् पण्यितिक्रान्तानि, तानि ध्रियन्ते पञ्चदशभिर्गुण्यते, ज तानि पञ्चषष्टयधिकानि चत्वारि शतानि (४६५) । अवमरात्राश्चैतावतिकालेऽष्टौ व्यतिक्रान्तास्तोऽष्टौ तेभ्यः पात्यन्ते, स्थितानि शेषाणि समपञ्चाशदधिकानि चत्वारि शतानि (४५७), तानि द्विगुणितानि जातानि चतुर्दशोत्तराणि नवशतानि (९१४) । एषु एकपष्टिभागप्रक्षेपे जातानि पञ्चसत्यधिकानि नव शतानि (९७९) । एषां द्वाविंशत्यधिकेन शतेन भागे हते लब्धाः सप्त ऋनवः, उपरिष्टादंशा एकविंशत्यधिकशतसंख्यका (१२१) उद्धरन्ति, एषां द्वाभ्यां भागे हृते अर्दै कृते इत्यर्थः लब्धा सार्धाषष्टिः (६०॥), सप्तानां च ऋतूनां षभिर्भागो हिटते, लब्ध एकः, अवशिष्टउपरिष्टादेकस्तिष्ठति, तत आगतम् एकः संवत्सरो व्यतिक्रान्तः संवत्सरे ऋतूनां षडात्मकत्वात्, एकस्य च संवत्सरस्योपरि एक इति प्रथमऋतुः प्रावृड नाम व्यतीतः, द्वितीयस्य च ऋतोः षष्टिर्दिनानि व्यतिक्रान्तानि, तदुपरि अर्द्धमिति एकषष्टितमं दिनं वर्तते इति ।३। । एवमन्यत्रापि भावना भावनायेति । अर्थतेषां ऋतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमेतीति ? परस्य प्रश्नावकाशमा शङ्कय तत्परिज्ञानाय वृद्धः करणगाथा प्रतिपादिता, सा चेयम् --- 'इच्छा उ ऊ बिगुणिओ' रूवूणो दिशुणिओ उ पव्वाणि । तस्सद्ध होइ तिही, जत्थ समत्ता उऊ तीसं ॥१॥" इच्छर्तुः द्विगुणितः रूपोनो-द्वि गुणितस्तु पर्वाणि । तस्याई भवति तिथिः यत्र समाप्ता ऋतव-स्त्रिंशत् ॥१॥ इतिच्छाया । अस्या व्याख्या-'इच्छाः उऊ' इच्छर्तुः यस्मिन् ऋतो ज्ञातुमिच्छा वर्तते स ऋतुः 'बिगुणिओ' द्विगुणितः क्रियते छाभ्यां गुण्यते द्विगुणितः सन् 'रूबूणो' रूपोन: एक ऊनः क्रियते तत पुनरपि सः 'बिगुणिओउ' द्विगुणित स्तु द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, गुणितश्च सन् यावत्पारमितो भवति तावन्ति 'पन्चाणि' पर्वाणि विज्ञेयानि । 'तस्स' तस्य द्विगुणीकृतस्य प्रतिराशितस्य यत् 'अर्द्ध' अर्द्ध यावत्परिमितं भवति तावत्परिमिता: 'तिही' तिथयो ज्ञातव्याः 'जत्थ' यत्र यासु तेथिषु 'तीसं' प्रिंशत् युगमाविन स्त्रिंशदापे 'उऊ समत्ता' ऋतवः समाप्ताः सम तिं प्राप्नुयुः ।।१॥ इति कास्म गाथा अक्षरार्थः । साम्प्रतं भावना क्रियते-अथ कोऽपि युगस्य प्रथममृतुं ज्ञातुमिच्छेत् यथा युगे कस्यां
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy