________________
चन्द्रप्रज्ञप्तिसूत्रे इतिवचनात् पञ्चदशभिर्मुण्यन्ते, जातं पञ्चोत्तरं शतम् (१०५). एतावतिकाले च 'तइए पव्वे सत्त पन्चे' इत्यादि वक्ष्यमाणसूत्रवचनात् द्वाववमरात्रौ उपचाराद् द्वाषष्टिभागौ द्वौ अभूतामिति 'बावट्ठीमागा परिहीणं' इति वचनात् द्वौ तस्माद्राशेः पात्येते स्थितं पश्चात् त्र्युत्तरं शतम् (१०३) तत् 'दुगुणं' इति द्वाभ्यां गुण्यते जाते षड्डत्तरे द्वे शते (२०६) ततः 'एगट्ठीइजयं' एकपट्या युत मिति तत्रैकषष्टिः प्रक्षिप्यते जाते द्वे शते सप्त-षष्ट्यधिके (२६७) तत एपा 'बावीससएण भाइए' इति वचनात् द्वाविंशत्यधिकेन शतेन भागो हियते लब्धौ धौ ‘छहिं हियसेस' इति वचनात् ऋतुनां षडात्मकत्वाद् यदि षभिरधिका संख्याभवेत्तदा षड्भिविभज्यते, इमो द्वौ तु षड्भर्भागं न सहेते इति न तयोः षड्भिर्भागहारः प्रसज्यते ततो द्वावेमी ऋतू स्थितौ पूर्व भागे हृते ये शेषास्त्रयोविंशतिरंशा उद्धृतास्तेषां 'सेसाणं अंसाणं बेहिउभागेहि' इति वचनात् द्वाभ्यां भागे हृते तेषाम् कृते जाता सार्द्धा एकादश (११॥) 'तेसिं जलद्धं ते दिवसा नायव्वा' इत्यादि वचनात् ते प्रवर्त्तमानस्य ऋतो दिवसा ज्ञातव्या इति सूर्यतुश्चाषाढादिकस्तत आगतम्- द्वौ ऋतू अतिक्रान्तौ, तृतीयश्च ऋतुः सम्प्रति वर्त्तते, तस्य च प्रवर्त्तमानस्य ऋतो एकादश दिवसाः परिपूर्णा व्यतिक्रान्ताः, तदुपरि यदर्थं तेन द्वादशो दिवसो वर्त्तते इति ॥१॥ - अथ युगे प्रथमाया मक्षयतृतीयायां केनापि पृष्टम्-अद्य प्रभृति के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्त्तते ? इति प्रश्ने प्रत्याह-तत्र प्रथमाया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य एकोनविंगतिः पर्वाणि व्यतिक्रान्तानि तत एकोनविंशति स्थापयित्वा सा पूर्वोक्तरीत्या पञ्चदशभि गुण्यते, जाते पञ्चाशीत्यधिके द्वे शते (२८५) अक्षयतृतीयायां किल पृष्टमिति पर्वणा मुपरि उपचाराद् डाष्टिभागसंज्ञत्वेन कथिता स्तिस्रस्तिथयः प्रक्षिप्यन्ते जाते अष्टाशीत्यधिके द्वे शते (२८८), एतावति काले एकोनावंशतिपर्वरूपे 'तइए ५०वे' इत्यारभ्य 'एगूणवीसइमे पव्वे' इत्यादि, वक्ष्यमाणसूत्रवचनात् अवमरात्राः पञ्च भवन्तीत्यतः 'बावट्ठी भागपरिहीणं" इति वचनात् तस्माद् राशेः पञ्च पात्यन्ते जाते व्यर्श त्यधिके द्वे शते (२८३) ते 'दुगुण" इति वचनात् द्वाभ्यां गुण्येते, जातानि षट् षष्टयधिकानि पञ्च शतानि (५६६), तानि 'एगट्ठीए जुयं' इति वचनात् एकषष्टि सहितानि क्रियन्ते जातानि सप्तविंशत्यधिकानि षट्शतानि (६२७) तेषां 'बावीससएण भाइए' इति वचनात् द्वाविंशत्यधिकेन शतेन (१२२) भागो हियते लब्धाः पञ्च, ते च ऋतूनां षडात्मकत्वात् 'छहिहिय' इति वचनात् षभिर्भागहरणं प्राप्यते, तच्चते, न सहन्ते इति न तेषां षड्भिर्भागहारस्ततः पञ्चैव स्थिता इति पञ्च 'उऊ होइ' इति ऋतवो व्यतिक्रान्ता इति सिद्धम् । 'सेसाणं अंसाणं बेहि उ भागेहि' इति वचनात् तेषां शेषाणां सप्तदशानामंशानां द्वाभ्यां भागे हूते तेषाम कृते इत्यर्थः